एवं निन्दति चात्मानं धिक्कुर्वन् साधुदूषितम्
निषादस्य कुले जातो भक्ष्याभक्ष्याश्च भक्षिताः
पेयापेयं च मे पीतं विक्रीताश्चाप्यविक्रेयाः 125.
वेश्मन्यभोज्यभोज्यं च भुक्तं चैव न संशयः
ततः किंचापराधं वा केन वा तद्विचिन्तये
एतस्मिन्नंतरे भूमे निषादः क्रोधमूर्च्छितः
ततो मृगयते भार्यां भक्तियुक्तां शुभेक्षणाम्
क्व गतासि प्रियेऽस्माकं त्यक्त्वा पुत्रान् गृहे च माम्
किं नु पश्यथ भार्यां मे गङ्गातीरमुपागता
तत्रैव च नराः सर्वे मायातीर्थमुपागताः
इदं वासश्च कुम्भश्च नदीकूले च तिष्ठति
अथ केनापि ग्राहेण स्नायमाना तपस्विनी 125.
न चाप्रियं मयाऽस्युक्ता कदाचिदपि वाचकम्
अथवापि पिशाचेन भक्षिता भूतराक्षसैः
किं कृतं दुष्कृतं पूर्वं मया कर्म सुसङ्कटम्
एहि मे सुभगे कान्ते मम चित्तानुवर्त्तिनि
मां पश्य त्वं वरारोहे त्रीन्पुत्रानतिबालकान्
मम पुत्रा रुदन्त्येते बालकास्तव लालसा
कामं मां क्षुधितं चैव ज्ञास्यसे त्वं पिपासितम्
एवं विलपमानस्य निषादस्य त्वितस्ततः
सुखं योगं च ते नीत्वा सा गता ह्यनिवृत्तये
निषादं भाषते तत्र गच्छ किं परिक्लिश्यसे 125.
एते न त्यजनीयास्ते कदाचिदपि पुत्रकाः
उवाच मधुरं वाक्यं दुःखशोकपरिप्लुतः
सान्त्वितोऽस्मि त्वया विप्र वचनैर्मधुराक्षरैः
निषदास्य वचः श्रुत्वा स मुनिः संशितव्रतः
मा रोदीर्वच्मि भद्रं ते तवाहं सा प्रियाऽभवत्
परिव्राजवचः श्रुत्वा निषादो विगतज्वरः
किमिदं भाषसे विप्र अव्यक्तं यत्कदाचन
निषादस्य वचः श्रुत्वा ब्राह्मणो दुःखमूर्च्छितः