यत्र सर्वा दिव्यरूपा भवन्त्यप्सरसः पराः ततो मम वचः श्रुत्वा स च ब्राह्मणपुंगवः
अथ नो कुप्यसे देव वरं समनुयाचते
न चाहं कांचनं गावो न च स्त्रीराज्यमेव च
तथा स्वर्गसहस्राणामेकं चापि न रोचते 125.
ततस्तस्य वचः श्रुत्वा समया तत्र भाषितः
देवा अपि न जानन्ति विष्णुमायाविमोहिताः
उवाच मधुरं वाक्यं मायया च प्रचोदितः
तव देव प्रसादेन ममैवं दीयतां वरः
गच्छ कुब्जाम्रके गङ्गास्नातो मायां तु गच्छसि कुब्जाम्रके देवि विप्रो मम मायाभिलाषुकः
स्थापयित्वा यथान्यायं तीर्थमाराधयद्यथा
अवगाह्य ततो गङ्गां सर्वगात्रे च क्लेदिते
हृदयेऽचिन्तयत्तत्र गर्भक्लेशेन पीडितः
योऽहं निषादगर्भेऽस्मिन्वसामि नरकेषु च 125.
योऽहं निषादगर्भेऽस्मिन्पीडास्ति मलसंकुले
पुरीषमूत्रसङ्कीर्णे मांसशोणितकर्द्दमे
बहुरोगसमाकीर्णे बहुदुःखतमाकुले
कुतो विष्णुः कुतो वाहं कुतो गङ्गाजलानि च
एवं चिन्तयमानस्तु शीघ्रं गर्भाद्विनिःसृतः
अजायत ततः कन्या निषादस्य गृहे तदा
न च संज्ञायते किंचिद्विष्णुमायाविमोहिता
पुत्रान्दुहितरश्चैव जनयामास मायया
जीवानि चैव सततं घातितानि ततस्ततः
गम्यागम्यं न जानाति मायाजालेन मोहितः 125.
घटं गृहीत्वा विड्लिप्तवस्त्रक्षालनकारणात्
स्नातुं गङ्गाजले स्थित्वा विगाहयति जाह्नवीम्
जातस्तपोधनस्तत्र दण्डी कुण्डीधरः पुनः
वस्त्रादि दर्शितं चैव यत्र संस्थापितं पुरा
विप्रेण ज्ञातुकामेन विष्णुमायां यथा पुरा
वासो गृह्णाति सव्रीडो योगं च परिचिन्तयन्
ततो विन्दति चात्मानं तपसा यत्तदा कृतम्