तस्य ब्राह्मणमुख्यस्य स्त्रीत्वे यत्कर्म पापकम्
मधुरं वाक्यमादाय प्रत्युवाच वसुन्धराम्
माया मम विशालाक्षि रोहिणी लोमहर्षिणी
गतो गतीरनेकाश्च उत्तमाधममध्यमाः
यथा ब्राह्मणमुख्येन प्राप्ता स्त्रीयोनिरेव च 125.
ममैवाराधनपरो मम कर्मपरायणः
अयं दीर्घेण कालेन तस्य तुष्टोऽस्मि सुन्दरि
ततस्तस्य मया देवि दत्त्वा दर्शनमुत्तमम्
वरं वरय भद्रं ते तव यद्धृदि वर्त्तते
अथवेच्छसि तं स्वर्गं यत्र सौख्यं वराङ्गनाः
यत्र सर्वा दिव्यरूपा भवन्त्यप्सरसः पराः ततो मम वचः श्रुत्वा स च ब्राह्मणपुंगवः
अथ नो कुप्यसे देव वरं समनुयाचते
न चाहं कांचनं गावो न च स्त्रीराज्यमेव च
तथा स्वर्गसहस्राणामेकं चापि न रोचते 125.
ततस्तस्य वचः श्रुत्वा समया तत्र भाषितः
देवा अपि न जानन्ति विष्णुमायाविमोहिताः
उवाच मधुरं वाक्यं मायया च प्रचोदितः
तव देव प्रसादेन ममैवं दीयतां वरः
गच्छ कुब्जाम्रके गङ्गास्नातो मायां तु गच्छसि कुब्जाम्रके देवि विप्रो मम मायाभिलाषुकः
स्थापयित्वा यथान्यायं तीर्थमाराधयद्यथा
अवगाह्य ततो गङ्गां सर्वगात्रे च क्लेदिते
हृदयेऽचिन्तयत्तत्र गर्भक्लेशेन पीडितः
योऽहं निषादगर्भेऽस्मिन्वसामि नरकेषु च 125.
योऽहं निषादगर्भेऽस्मिन्पीडास्ति मलसंकुले
पुरीषमूत्रसङ्कीर्णे मांसशोणितकर्द्दमे
बहुरोगसमाकीर्णे बहुदुःखतमाकुले
कुतो विष्णुः कुतो वाहं कुतो गङ्गाजलानि च
एवं चिन्तयमानस्तु शीघ्रं गर्भाद्विनिःसृतः
अजायत ततः कन्या निषादस्य गृहे तदा
न च संज्ञायते किंचिद्विष्णुमायाविमोहिता