मेघा वहन्ति सलिलमुद्धृत्य लवणार्णवात्
रोगार्ता जन्तवः केचिद्भक्षयन्ति महौषधम्
औषधे दीयमानेऽपि जन्तुः पंचत्वमेति यत्
प्रथमं जायते गर्भः पश्चात्संजायते पुमान्
तत इन्द्रियनाशश्च एतन्मायाबलं मम
पुनश्च पत्रादियुतमेतन्मायाबलं मम 125.
तत्रामृतं विसृजामि मायायोगेन भूरिशः
भूत्वा वेगेन गरुडो वहाम्यात्मानमात्मना
मायामेतामहं कृत्वा यक्ष्यामि त्रिदिवौकसः
मायामाङ्गिरसीं कृत्वा याजयामि दिवौकसः
मायां तु वारुणीं कृत्वा रक्षामि च महार्णवम्
कुबेरमायामादाय अहं रक्षामि तद्धनम्
शाक्रीं मायां समास्थाय मया वृत्रो निषूदितः
मेरुं मायामयं कृत्वा वहाम्यादित्यमेव च
वडवामुखमास्थाय पिबामि तदहं जलम् 125.
यदीदं भाषते लोकः कुत्रैतत्तिष्ठते जलम्
मम मायानियोगेन तिष्ठति ह्यौषधं वने
राजमायामहं कृत्वा पालयामि वसुन्धराम्
प्रविश्य तानहं भूमे मायां लोके सृजाम्यहम्
मायामंशुमयीं कृत्वा पूरयाम्यखिलं जगत्
मायां सांवर्त्तकीं गृह्य पूरयाम्यखिलं जगत्
अनन्तमायया चाहं धारयामि स्वपामि च
देवा यत्र निलीयन्ते सा माया मम कीर्त्तिता
धारितासि च सुश्रोणि वारान् सप्तदशैव तु
मम् मायाबलं ह्येतद्येन तिष्ठाम्यहं जले 125.
तेऽपि मायां न जानन्ति मम मायाविमोहिताः
मायां पितृमयीं ह्येतां गृह्णामीति च तत्त्वतः
ऋषिर्मायानुसारेण स्त्रिया योनिं प्रवेशितः
कराभ्यामञ्जलिं कृत्वा वाक्यमेतत्तदब्रवीत्
स्त्रीत्वं चैव पुनः प्राप्तं स्त्रीयोनिं चैव प्रापितः