जातश्च विस्मरेत्सर्वमेषा माया ममोत्तमा
कर्मणा नीयतेऽन्यत्र मायैषा मम चोत्तमा
अङ्गुल्यश्चरणौ चैव भुजौ शीर्षं कटिस्तथा
कर्णौ नेत्रे कपालौ च ललाटं जिह्वया सह
तस्यैव जीर्यते भुक्तमग्निना पीतमेव च
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पंचम 125.
सर्वर्तुषु निजाकारः स्थावरे जङ्गमे तथा
आपो दिव्यास्तथा भौमा आपो येषु प्रतिष्ठिताः
वृष्टौ बहूदकाः सर्वे पल्वलानि सरांसि च
हिमवच्छिखरान्मुक्ता नाम्ना मन्दाकिनी नदी
मेघा वहन्ति सलिलमुद्धृत्य लवणार्णवात्
रोगार्ता जन्तवः केचिद्भक्षयन्ति महौषधम्
औषधे दीयमानेऽपि जन्तुः पंचत्वमेति यत्
प्रथमं जायते गर्भः पश्चात्संजायते पुमान्
तत इन्द्रियनाशश्च एतन्मायाबलं मम
पुनश्च पत्रादियुतमेतन्मायाबलं मम 125.
तत्रामृतं विसृजामि मायायोगेन भूरिशः
भूत्वा वेगेन गरुडो वहाम्यात्मानमात्मना
मायामेतामहं कृत्वा यक्ष्यामि त्रिदिवौकसः
मायामाङ्गिरसीं कृत्वा याजयामि दिवौकसः
मायां तु वारुणीं कृत्वा रक्षामि च महार्णवम्
कुबेरमायामादाय अहं रक्षामि तद्धनम्
शाक्रीं मायां समास्थाय मया वृत्रो निषूदितः
मेरुं मायामयं कृत्वा वहाम्यादित्यमेव च
वडवामुखमास्थाय पिबामि तदहं जलम् 125.
यदीदं भाषते लोकः कुत्रैतत्तिष्ठते जलम्
मम मायानियोगेन तिष्ठति ह्यौषधं वने
राजमायामहं कृत्वा पालयामि वसुन्धराम्
प्रविश्य तानहं भूमे मायां लोके सृजाम्यहम्
मायामंशुमयीं कृत्वा पूरयाम्यखिलं जगत्