यामेनां भाषसे देव मम मायेति नित्यशः
ज्ञातुमिच्छामि मायार्थं रहस्यं परमुत्तमम्
प्रत्युवाच तदा वाक्यं प्रहस्य तु वसुन्धराम्
वृथा क्लेशं किमर्थं त्वं प्राप्स्यते यद्विलोकनात्
मम मायां विशालाक्षि किं पुनस्त्वं वसुन्धरे
देशो निर्जलतां याति एषा माया मम प्रिये। सोमो यत्क्षीयते पक्षे पक्षे वापि च वर्द्धते ।। 125.
अमायां न स दृश्येत मायेयं मम तत्त्वतः
भवेच्च शीतलं ग्रीष्मे मायेयं मम तत्त्वतः
उदेति पूर्वतः प्रातर्मायेयं मम सुन्दरि
गर्भे च जायते जन्तुर्मायेयं मम सुन्दरि। जीवः प्रविश्य गर्भं तु सुखदुःखे च विन्दति
जातश्च विस्मरेत्सर्वमेषा माया ममोत्तमा
कर्मणा नीयतेऽन्यत्र मायैषा मम चोत्तमा
अङ्गुल्यश्चरणौ चैव भुजौ शीर्षं कटिस्तथा
कर्णौ नेत्रे कपालौ च ललाटं जिह्वया सह
तस्यैव जीर्यते भुक्तमग्निना पीतमेव च
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पंचम 125.
सर्वर्तुषु निजाकारः स्थावरे जङ्गमे तथा
आपो दिव्यास्तथा भौमा आपो येषु प्रतिष्ठिताः
वृष्टौ बहूदकाः सर्वे पल्वलानि सरांसि च
हिमवच्छिखरान्मुक्ता नाम्ना मन्दाकिनी नदी
मेघा वहन्ति सलिलमुद्धृत्य लवणार्णवात्
रोगार्ता जन्तवः केचिद्भक्षयन्ति महौषधम्
औषधे दीयमानेऽपि जन्तुः पंचत्वमेति यत्
प्रथमं जायते गर्भः पश्चात्संजायते पुमान्
तत इन्द्रियनाशश्च एतन्मायाबलं मम
पुनश्च पत्रादियुतमेतन्मायाबलं मम 125.
तत्रामृतं विसृजामि मायायोगेन भूरिशः
भूत्वा वेगेन गरुडो वहाम्यात्मानमात्मना
मायामेतामहं कृत्वा यक्ष्यामि त्रिदिवौकसः
मायामाङ्गिरसीं कृत्वा याजयामि दिवौकसः