कानि कर्माणि कुर्वन्ति ये त्वां पश्यन्ति माधव
ब्राह्मणस्य च किं कर्म क्षत्रियस्य च किं भवेत्
योगो वै प्राप्यते केन तपो वा केन निश्चितम्
किं च दुःखनिवासं वा भोजनं पानकं तथा
प्रापणं कीदृशं चापि कासु दिक्षु तथा प्रभो
तिर्यग्योनिं न गच्छेत कर्मणा केन केशव
जरा वा केन गच्छेत जन्म वा केन गच्छति
संसारस्य न गच्छेत केन कर्मप्रभावतः
शृण्वन्तु मे भागवता ये च मोक्षे व्यवस्थिताः
मन्त्रः – मासेषु सर्वेषु च मुख्यभूतस्त्वं माधवो माधवमास एव नित्यं च यज्ञेषु तथेज्यते यो नारायणः सप्तलोकेषु वीरः ।।124.
एवं ग्रीष्मे विधिं चैव कुर्यात्सर्वं ममोक्तितः
मासेषु सर्वेष्वपि मुख्यभूतो मासो भवान्ग्रीष्म एकः प्रपन्नः
एवं ग्रीष्मे वरारोहे मम चैवार्च्चनं कुरु
यावन्तः पुष्पिताः शालाः पृथ्व्यां यावत्सुगंधकाः
एवं वर्षास्वपि धरे मम कर्म च कारयेत्
अन्यच्च ते प्रवक्ष्यामि कर्म संसारमोक्षणम्
एतेषां सुमनोभिश्च पूजनीयो महादरात् नमो नारायणायेति इमं मन्त्रमुदाहरेत्
पश्यन्ति ये ध्यानपरा घनाभं त्वामाश्रिताः पूज्यमानं महिम्ना
आषाढमासे द्वादश्यां सर्वशान्तिकरं शुभम्
स मर्त्यो न प्रणश्येत संसारेऽस्मिन् युगेयुगे 124.
तरंति येन संसारं नराः कर्मपरायणाः
मुक्त्वा नारायणं देवं वाराहं रूपमास्थितम्
कुशिष्याय न दातव्यं ये च शास्त्रार्थदूषकाः
धनधर्मक्षयस्तेषां पठनादाशु जायते
एतत्ते कथितं भद्रे पूर्वं यत्पृष्टवत्यसि
इति श्रीवराहपुराणे भगवच्छास्त्रे ऋतूपस्करणं नाम चतुर्विंशत्यधिकशततमोऽध्यायः
अथ मायाचक्रम् श्रुत्वा षडृतुकर्माणि पृथिवी संशितव्रता
मङ्गल्याश्च पवित्राश्च ये त्वया समुदाहृताः
श्रुत्वा त्वेतानि कर्माणि त्वन्मुखोक्तानि माधव
एतन्मे परमं गुह्यं परं कौतूहलं तथा