देवाः कांक्षन्ति ते देव वाराहीं रूपसंस्थितिम्
ततो नारायणो देवः पृथिवीं प्रत्युवाच ह
दिव्यं वर्षसहस्रं वै धारितासि वसुन्धरे
इहागच्छामि भद्रं ते द्रष्टुकामा दिवौकसः
एवं तस्य वचः श्रुत्वा माधवस्य वसुन्धरा
वाराहं पुरुषं देवं विज्ञापयति सा धरा
शरणं त्वां प्रपन्नाहं त्वद्भक्ता त्वं गतिः प्रभुः
कथं वा तुष्यसे देव पूज्यसे केन कर्मणा
न च मेऽस्ति व्यथा काचित्तव कर्मणि नित्यशः
सर्वे सुरासुरा लोकाः सरुद्रेन्द्रपितामहाः 124.
कानि कर्माणि कुर्वन्ति ये त्वां पश्यन्ति माधव
ब्राह्मणस्य च किं कर्म क्षत्रियस्य च किं भवेत्
योगो वै प्राप्यते केन तपो वा केन निश्चितम्
किं च दुःखनिवासं वा भोजनं पानकं तथा
प्रापणं कीदृशं चापि कासु दिक्षु तथा प्रभो
तिर्यग्योनिं न गच्छेत कर्मणा केन केशव
जरा वा केन गच्छेत जन्म वा केन गच्छति
संसारस्य न गच्छेत केन कर्मप्रभावतः
शृण्वन्तु मे भागवता ये च मोक्षे व्यवस्थिताः
मन्त्रः – मासेषु सर्वेषु च मुख्यभूतस्त्वं माधवो माधवमास एव नित्यं च यज्ञेषु तथेज्यते यो नारायणः सप्तलोकेषु वीरः ।।124.
एवं ग्रीष्मे विधिं चैव कुर्यात्सर्वं ममोक्तितः
मासेषु सर्वेष्वपि मुख्यभूतो मासो भवान्ग्रीष्म एकः प्रपन्नः
एवं ग्रीष्मे वरारोहे मम चैवार्च्चनं कुरु
यावन्तः पुष्पिताः शालाः पृथ्व्यां यावत्सुगंधकाः
एवं वर्षास्वपि धरे मम कर्म च कारयेत्
अन्यच्च ते प्रवक्ष्यामि कर्म संसारमोक्षणम्
एतेषां सुमनोभिश्च पूजनीयो महादरात् नमो नारायणायेति इमं मन्त्रमुदाहरेत्
पश्यन्ति ये ध्यानपरा घनाभं त्वामाश्रिताः पूज्यमानं महिम्ना
आषाढमासे द्वादश्यां सर्वशान्तिकरं शुभम्
स मर्त्यो न प्रणश्येत संसारेऽस्मिन् युगेयुगे 124.