ऋषयः स्तुवन्ति मन्त्रेण वेदोक्तेन च माधवि
स्तुवन्ति देवलोकाश्च पुराणं पुरुषोत्तमम्
स्तुवन्ति देवं भूतानां सर्वलोकस्य चेश्वरम्
स्तुवन्ति देवदेवेशं युगानां संक्षयेऽक्षयम्
स्तुवन्ति केशवं देवमादिकालमयं प्रभुम् स्तुवन्ति नाथं भूतानां सर्वलोकमहेश्वरम्
नारदः पर्वतश्चैव असितो देवलस्तथा
एते चान्ये च बहवो मित्रावसुपरावसू
श्रुत्वा तु प्रतिनिर्घोषं देवानां तु महौजसाम्
किमयं श्रूयते शब्दो ब्रह्मघोषेण संयुतः
ततः कमलपत्राक्षी सर्वरूपगुणान्विता 124.
देवाः कांक्षन्ति ते देव वाराहीं रूपसंस्थितिम्
ततो नारायणो देवः पृथिवीं प्रत्युवाच ह
दिव्यं वर्षसहस्रं वै धारितासि वसुन्धरे
इहागच्छामि भद्रं ते द्रष्टुकामा दिवौकसः
एवं तस्य वचः श्रुत्वा माधवस्य वसुन्धरा
वाराहं पुरुषं देवं विज्ञापयति सा धरा
शरणं त्वां प्रपन्नाहं त्वद्भक्ता त्वं गतिः प्रभुः
कथं वा तुष्यसे देव पूज्यसे केन कर्मणा
न च मेऽस्ति व्यथा काचित्तव कर्मणि नित्यशः
सर्वे सुरासुरा लोकाः सरुद्रेन्द्रपितामहाः 124.
कानि कर्माणि कुर्वन्ति ये त्वां पश्यन्ति माधव
ब्राह्मणस्य च किं कर्म क्षत्रियस्य च किं भवेत्
योगो वै प्राप्यते केन तपो वा केन निश्चितम्
किं च दुःखनिवासं वा भोजनं पानकं तथा
प्रापणं कीदृशं चापि कासु दिक्षु तथा प्रभो
तिर्यग्योनिं न गच्छेत कर्मणा केन केशव
जरा वा केन गच्छेत जन्म वा केन गच्छति
संसारस्य न गच्छेत केन कर्मप्रभावतः
शृण्वन्तु मे भागवता ये च मोक्षे व्यवस्थिताः
मन्त्रः – मासेषु सर्वेषु च मुख्यभूतस्त्वं माधवो माधवमास एव नित्यं च यज्ञेषु तथेज्यते यो नारायणः सप्तलोकेषु वीरः ।।124.