तिथीनां द्वादशी चापि सर्वयज्ञफलाधिका
तदेकं संप्रदायैव द्वादश्यामभिविन्दति
महानाधिहरो योगस्तेनैतत्प्रभवो धरे
गन्धपत्रं करे गृह्य इमं मन्त्रमुदीरयेत्
गृहाण गन्धपत्राणि धर्ममेव प्रवर्द्धय
पुष्पाणां च प्रवक्ष्यामि यो गुणो यच्च वै फलम् ॐ नमो वासुदेवायेत्युक्त्वा मन्त्रमुदीरयेत्
मन्त्रः – भगवन्नाज्ञापय सुमनांसीमानि अर्च्चयितुं मां सुमनसङ्कुरु गृह्णीष्व सुमनस्कं देव सुगन्धेन ते नमः
प्राप्नोति ददमानस्तु मम कर्मपरायणः 123.
दिव्यं वर्षसहस्रं वै मम लोकेषु तिष्ठति
सुमनो गन्धसम्भूतं यत्त्वया पूर्वपृच्छितम्
इति श्रीवराहपुराणे सुमनोगन्धादिमाहात्म्यं नाम त्रयोविंशत्यधिकशततमोऽध्यायः
अथ ऋतूपस्करम् फाल्गुनस्य तु मासस्य शुक्लपक्षस्य द्वादशीम्
श्वेतं पाण्डुरकं चैव सुगन्धं शोभनं बहु
तत एवं विधिं कृत्वा सर्वं भागवतं शुचिः
तदाहरति कर्माणि विधिदृष्टेन कर्मणा
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् नमोऽस्तु ते लोकनाथ प्रवीराय नमोऽस्तु ते
सपुष्पितस्येह वसन्तकाले वनस्पतेर्गर्न्धरसप्रयुक्ताः
यश्चैतेन विधानेन कुर्यान्मासे तु फाल्गुने
यत्तु पृच्छसि सुश्रोणि मासे वैशाख उत्तमे
कृत्वा तु मम कर्माणि शुभानि तरुणानि च 124.
ऋषयः स्तुवन्ति मन्त्रेण वेदोक्तेन च माधवि
स्तुवन्ति देवलोकाश्च पुराणं पुरुषोत्तमम्
स्तुवन्ति देवं भूतानां सर्वलोकस्य चेश्वरम्
स्तुवन्ति देवदेवेशं युगानां संक्षयेऽक्षयम्
स्तुवन्ति केशवं देवमादिकालमयं प्रभुम् स्तुवन्ति नाथं भूतानां सर्वलोकमहेश्वरम्
नारदः पर्वतश्चैव असितो देवलस्तथा
एते चान्ये च बहवो मित्रावसुपरावसू
श्रुत्वा तु प्रतिनिर्घोषं देवानां तु महौजसाम्
किमयं श्रूयते शब्दो ब्रह्मघोषेण संयुतः
ततः कमलपत्राक्षी सर्वरूपगुणान्विता 124.