वृद्धायामथ सृष्टौ तु सर्वे देवाः पुरातनम् । नारायणाख्यं पुरुषं यजन्तो विविधैर्मखैः ।। १०.
द्वीपेषु चैव सर्वेषु वर्षेषु च मखैर्हरिम् । देवाः सत्रैर्महद्भिस्ते यजन्तः श्रद्धयाऽन्विताः । तोषयामासुरत्यर्थं स्वं पूज्यं कर्तुमीप्सवः ।। १०.
एवं तोषयतां तेषां बहुवर्षसहस्त्रिकम् । काले देवस्तदा तुष्टः प्रत्यक्षत्वं जगाम ह ।। १०.
अनेकबाहूदरवक्त्रनेत्रो महागिरेः श्रृङ्गमिवोल्लिखंस्तदा । उवाच किं कार्यमथो सुरेशो ब्रूतां वरं देववरा वरं वः ।। १०.
देवा ऊचुः । जयस्व गोविन्द महानुभाव त्वया वयं नाथ वरेण देवाः । मनुष्यलोकेऽपि भवन्तमाद्यं विहाय नास्मान्भवते ह कश्चित् ।। १०.
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । सर्वे भवन्तं शरणं गताः स्म कुरुष्व पूज्यानिह विश्वमूर्ते ।। १०.
एवमुक्तस्तदा तैस्तु महायोगेश्वरो हरिः । करोमि सर्वान् वः पूज्यानित्युक्त्वाऽन्तरधीयत ।। १०.
देवा अपि निजौकांसि गतवन्तः सनातनम् । स्तुवन्तः परमेशोऽपि त्रिविधं भावमास्थितः ।। १०.
एवं त्रिधा जगद्धाता भूत्वा देवान् महेश्वरः । आराध्य सात्त्विकं राजं तामसं च त्रिधा स्थितम् ।। १०.
सात्त्विकेन पठेद् वेदान् यजेद् यज्ञेन देवताः । आत्मनोऽवयवो भूत्वा राजसेनापि केशवः ।। १०.
स कालरूपिणं रौद्रं प्रकृत्या शूलपाणिनम् । आत्मनो राजसीं मूर्तिं पूजयामास भक्तितः । तामसेनापि भावेन असुरेषु व्यवस्थितः ।। १०.
एवं त्रिधा जगद्धाता भूत्वा देवान् महेश्वरः । आराधयामास ततो लोकोऽपि त्रिविधोऽभवत् ।। १०.
ब्रह्मविष्णुमहेशाननाम्ना गृह्य व्यवस्थितः । स च नारायणो देवः कृते युगवरे प्रभुः ।। १०.
त्रेतायां रुद्ररूपस्तु द्वापरे यज्ञमूर्तिमान् । कलौ नारायणो देवो बहुरूपो व्यजायत ।। १०.
तस्यादिकृत्ततो विष्णोश्चरितं भूरितेजसः । श्रृणुष्व सर्वं सुश्रोणि गदतो मम भामिनि ।। १०.
आसीत् कृतयुगे राजा सुप्रतीको महाबलः । तस्य भार्याद्वयं चासीदविशिष्टं मनोरमम् ।। १०.
विद्युत्प्रभा कान्तिमती तयोरेते तु नामनी । तयोः पुत्रं समं राजा न लेभे यत्नवानपि ।। १०.
यदा तदा मुनिश्रेष्ठमात्रेयं वीतकल्मषम् । तोषयामास विधिना चित्रकूटे नगोत्तमे ।। १०.
सक ऋषिस्तोषितस्तेन दीर्घकालं वरार्थिना । वरं दिदित्सया यावदब्रवीदत्रिजो मुनिः ।। १०.
तावदिन्द्रोऽपि करिणा गतः पार्श्वेन तस्य ह । देवसैन्यैः परिवृतस्तूष्णीमेव महाबलः ।। १०.
तं दृष्ट्वाऽन्तर्गतप्रीतिमप्रीतिं प्रीतवान् मुनिः । चुकोप देवराजाय शापमुग्रं ससर्ज ह ।। १०.
यस्मात् त्वया ममावज्ञा कृता मूढ दिवस्पते । ततस्त्वं चालितो राज्यादन्यलोके वसिष्यसि ।। १०.
एवमुक्त्वाऽपि कोपेन सुरेशं तं च भूपतिम् । उवाच राजन् पुत्रस्ते भविता दृढविक्रमः ।। १०.
इन्द्ररूपोपमः श्रीमानुद्यच्छस्त्रः प्रतापवान् । विद्याप्रभावकर्म्मज्ञः क्रूरकर्मा भविष्यति । दुर्जयोऽतिबली राजा एवमुक्त्वा गतो मुनिः ।। १०.
सोऽपि राजा सुप्रतीको भार्यायां गर्भमावहत् । विद्युत्प्रभायां धर्मज्ञः साऽपि काले त्वसूयत ।। १०.
तस्याः पुत्रः समभवद् दुर्जयाख्यो महाबलः । जातकर्मादिसंस्कारं तस्य चक्रे मुनिः स्वयम् । (दुर्वासा नाम तपसो तस्य देहमकल्मषः ।। १०.
) तस्य चेष्टेर्बलेनासौ मुनेः सौम्यो बभूव ह । वेदशास्त्रार्थविद्यायां पारगो धर्मवान् शुचिः ।। १०.
या द्वितीयाऽभवत् पत्नी तस्य राज्ञो महात्मनः । नाम्ना कीर्त्तिमती धन्या तस्याः पुत्रो बभूव ह । नाम्ना सुद्युम्न इत्येवं वेदवेदाङ्गपारगः ।। १०.
अथ कालेन महता स राजा राजसत्तमः । सुप्रतीकः सुतं दृष्ट्वा दुर्जयं योग्यमन्तिके ।। १०.
आत्मनो वृद्धभावं च वाराणस्याधिपो बली । चिन्तयामास राज्यार्थं दुर्जयं प्रति भामिनि ।। १०.