एवमुक्त्वा तिरोभावं गतोऽहं सोऽपि चिन्तयन् । आस्ते यावज्जगद्धात्रि नाध्यगच्छत किंचन ।। २.
तावत् तस्य महारोषो ब्रह्मणोऽव्यक्तजन्मनः। संभूय तेन बालः स्यादङ्के रोषात्मसंभवः ।। २.
यो रुदन् वारितस्तेन ब्रह्मणाऽव्यक्तमूर्त्तिना । ब्रवीति नाम मे देहि तस्य रुद्रेति सो ददौ ।। २.
सोऽपि तेन सृजस्वेति प्रोक्तो लोकमिमं शुभे । अशक्तः सोऽथ सलिले ममज्ज तपसे धृतः ।। २.
तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिम् । ब्रह्मा ससर्ज्ज भूतेषु दक्षिणाङ्गुष्ठतो वरम् । वामे चैव तथाऽङ्गुष्ठे तस्य पत्नीमथासृजत् ।। २.
स तस्यां जनयामास मनुं स्वायंभुवं प्रभुः । तस्मात् संभाविता सृष्टिः प्रजानां ब्रह्मणा पुरा ।। २.
धरण्युवाच । विस्तरेण ममाचक्ष्व आदिसर्गं सुरेश्वर । ब्रह्मा नारायणाख्योऽयं कल्पादौ चाभवद् यथा ।। २.
श्रीभगवानुवाच । ससर्ज सर्वभूतानि यथा नारायणात्मकः । कथ्यमानं मया देवि तदशेषं क्षिते श्रृणु ।। २.
गतकल्पावसाने तु निशि सुप्तोत्थितः शुभे । सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ।। २.
नारायणः परोऽचिन्त्यः पराणामपि पूर्वजः । ब्रह्मस्वरूपी भगवाननादिः सर्वसंभवः ।। २.
इदं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ।। २.
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।। २.
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः ।। २.
तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।। २.
पञ्चधाऽवस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् । बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः । स मुख्यसर्गो विज्ञेयः सर्गविद्भिर्विचक्षणैः ।। २.
पुनरन्यदभूत् तस्य ध्यायतः सर्गमुत्तमम्। तिर्यक्स्त्रोतस्तु वै यस्मात् तिर्यक्स्त्रोतस्तु वै स्मृतः ।। २.
पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते। तमप्यसाधकं मत्वा तिर्यक्स्त्रोतं चतुर्मुखः ।। २.
ऊर्ध्वस्त्रोतस्त्रिधा यस्तु सात्त्विको धर्मवर्त्तनः । ततोर्ध्वचारिणो देवाः सर्वगर्भसमुद्भवाः ।। २.
तदा सृष्ट्वाऽन्यसर्गं तु तदा दध्यौ प्रजापतिः । असाधकांस्तु तान् मत्वा मुख्यसर्गादिसंभवान् ।। २.
ततः स चिन्तयामास अर्वाक्स्त्रोतस्तु स प्रभुः । अर्वाक्स्त्रोतसि चोत्पन्ना मनुष्याः साधका मताः ।। २.
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः । तस्मात् तु दुखः बहुला भूयोभूयश्च कारिणः ।। २.
इत्येते कथिताः सर्गाः षडेते सुभगे तव । प्रथमो महतः सर्गस्तन्मात्राणि द्वितीयकः ।। २.
वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः । इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः ।। २.
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्त्रोतश्च यः प्रोक्तस्तैर्यक्स्त्रोतः स उच्यते ।। २.
तथोर्ध्वस्त्रोतसां श्रेष्ठः सप्तमः स तु मानवः । अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।। २.
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।। २.
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः । प्राकृता वैकृताश्चैव जगतो मूलहेतवः । इत्येते कथिताः सर्गाः किमन्यच्छ्रोतुमिच्छसि ।। २.
धरण्युवाच । नवधा सृष्टिरुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः । कथं सा ववृधे देव एतन्मे कथयाच्युत ।। २.
श्रीवराह उवाच । प्रथमं ब्रह्मणा सृष्टा रुद्राद्यास्तु तपोधनाः। सनकादयस्ततः सृष्टा मरीच्यादय एव च ।। २.
मरीचिरत्रिश्च तथा अङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च महातेजाः प्रचेता भृगुरेव च । नारदो दशमश्चैव वसिष्ठश्च महातपाः ।। २.