एवं कर्माणि कुर्वन्ति द्वादश्यां वै यशस्विनि
एवं वै शारदं कर्म निखिलं कथितं मया
इति प्रबोधिनीकर्म यानि कर्माणि कुर्वन्ति पुंसो यान्ति परां गतिम्
शीतवाताभिसन्तप्ता मम भक्त्या व्यवस्थिताः
शिशिरे यानि कर्माणि पुष्पिताश्च वनस्पतीः
कराभ्यामञ्जलिं कृत्वा इमं मंत्रमुदीरयेत्
मन्त्रः – शिशिरो भवान् धातरिमं लोकनाथ हिमं दुस्तरं दुष्प्रवेशं कालं संसारान्मां तारयेमं धर्त्ता त्रिलोकनाथ
यस्त्वथैतेन मन्त्रेण शिशिरे कर्म कारयेत् 123.
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
अहं तत्र प्रवक्ष्यामि पुष्पादीनां च यत्फलम्
तिष्ठते विष्णुलोकेऽस्मिन्यो ददाति स्म निश्चलम्
मतिमान्धृतिमान्भूत्वा गन्धपुष्पाणि दापयेत्
द्वादश्यां चैव यो दद्यात्त्रीन्मासांश्च समाहितः
वैशाखस्य तु मासस्य वनमालां सुपुष्पिताम्
वर्षाणि द्वादशैवेह तेन पूजा कृता भवेत्
मासि मार्गशिरे भद्रे दद्यादुत्पलमिश्रितम्
श्रुत्वेति वचनं तस्य प्रश्रयेण तु माधवि
प्रभो द्वादश मासाश्च षष्ट्युत्तरशतत्रयम् 123.
द्वादशीं चापि देवेश प्रशंससि सदा मम
प्रहस्य तामुवाचेदं वचनं धर्मसंश्रितम्
तिथीनां द्वादशी चापि सर्वयज्ञफलाधिका
तदेकं संप्रदायैव द्वादश्यामभिविन्दति
महानाधिहरो योगस्तेनैतत्प्रभवो धरे
गन्धपत्रं करे गृह्य इमं मन्त्रमुदीरयेत्
गृहाण गन्धपत्राणि धर्ममेव प्रवर्द्धय
पुष्पाणां च प्रवक्ष्यामि यो गुणो यच्च वै फलम् ॐ नमो वासुदेवायेत्युक्त्वा मन्त्रमुदीरयेत्
मन्त्रः – भगवन्नाज्ञापय सुमनांसीमानि अर्च्चयितुं मां सुमनसङ्कुरु गृह्णीष्व सुमनस्कं देव सुगन्धेन ते नमः
प्राप्नोति ददमानस्तु मम कर्मपरायणः 123.
दिव्यं वर्षसहस्रं वै मम लोकेषु तिष्ठति
सुमनो गन्धसम्भूतं यत्त्वया पूर्वपृच्छितम्