तव देव प्रसादेन किंचिदिच्छामि वेदितुम्
तपसा कर्मणा वापि पश्यन्ति त्वां हि माधव
एवं पृष्टस्तदा देव्या माधव्या स तु माधवः
श्रीवराह उवाच कथयिष्यामि ते धर्मं गुह्यं संसारमोक्षणम्
गते मेघागमे काले प्रसन्नशरदाशये
नातिशीतं न चात्युष्णे काले हंसविराविणि
कुमुदस्य च मासस्य भवेद्या द्वादशी शुभा
यावल्लोकाश्च धार्यन्ते तावत्कालं वसुन्धरे 123.
कृत्वा ममैव कार्याणि द्वादश्यां तत्र माधवि
मन्त्रः – ब्रह्मणा च रुद्रेण यः स्तूयमाना भवानृषिवन्दितो वन्दनीयश्च प्राप्ता द्वादशीयं ते प्रबुध्यस्व जागृष्व मेघा गताः पूर्णश्चन्द्रः शारदानि पुष्पाणि लोकनाथ तुभ्यमहं ददानीति धर्महेतोस्तव प्रीतये प्रबुद्धं जाग्रतं लोकनाथ त्वां भजमाना यज्ञेन यजन्ते सत्रेण सत्रिणो वेदैः पठन्ति भगवन्तः शुद्धाः प्रबुद्धा जाग्रतो लोकनाथ
एवं कर्माणि कुर्वन्ति द्वादश्यां वै यशस्विनि
एवं वै शारदं कर्म निखिलं कथितं मया
इति प्रबोधिनीकर्म यानि कर्माणि कुर्वन्ति पुंसो यान्ति परां गतिम्
शीतवाताभिसन्तप्ता मम भक्त्या व्यवस्थिताः
शिशिरे यानि कर्माणि पुष्पिताश्च वनस्पतीः
कराभ्यामञ्जलिं कृत्वा इमं मंत्रमुदीरयेत्
मन्त्रः – शिशिरो भवान् धातरिमं लोकनाथ हिमं दुस्तरं दुष्प्रवेशं कालं संसारान्मां तारयेमं धर्त्ता त्रिलोकनाथ
यस्त्वथैतेन मन्त्रेण शिशिरे कर्म कारयेत् 123.
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
अहं तत्र प्रवक्ष्यामि पुष्पादीनां च यत्फलम्
तिष्ठते विष्णुलोकेऽस्मिन्यो ददाति स्म निश्चलम्
मतिमान्धृतिमान्भूत्वा गन्धपुष्पाणि दापयेत्
द्वादश्यां चैव यो दद्यात्त्रीन्मासांश्च समाहितः
वैशाखस्य तु मासस्य वनमालां सुपुष्पिताम्
वर्षाणि द्वादशैवेह तेन पूजा कृता भवेत्
मासि मार्गशिरे भद्रे दद्यादुत्पलमिश्रितम्
श्रुत्वेति वचनं तस्य प्रश्रयेण तु माधवि
प्रभो द्वादश मासाश्च षष्ट्युत्तरशतत्रयम् 123.
द्वादशीं चापि देवेश प्रशंससि सदा मम
प्रहस्य तामुवाचेदं वचनं धर्मसंश्रितम्