ततः साप्यनवद्याङ्गी रक्तपद्मशुभानना
एतदर्थं मया भद्र गुह्यं नोक्तं तथा स्वकम्
क्षुत्पिपासापरिश्रान्ता चिल्ली गगनगामिनी
अथ कश्चिन्मृगव्याधो हत्वा वनचरान्बहून्
प्रवृत्तोऽग्निमुपादाय तावदुड्डीय सत्वरम्
न च सक्तास्मि संहर्त्तुं मांसभारप्रपीडिता
भक्षयित्वा ततो मांसं व्याधः संहृष्टमानसः
तावद्ददर्श मां तत्र खादन्तीं मांसपिण्डिकाम् 122.
विद्धा बाणेन मां तत्र भक्षयन्तमिपातयत्
पतितास्म्यवशा भद्र कालतन्त्रे दुरासदे
जातास्मि त्वत्प्रिया चापि स्मरन्ती पूर्वजन्म तत्
गलितान्यल्पशेषाणि प्राणनाथ समीपतः
आनीतोऽसि मया भद्र स्थानं कोकामुखं प्रति
उत्तमे तु कुले जाता मानुषी जातिमाश्रिताः
तं तमेव करिष्यामि विष्णुलोके सुखावहम्
विस्मयं परमं गत्वा साधु साध्वित्यपूजयत्
तच्छ्रुत्वा कानिचिद्देवी स्वयं चक्रे पतिव्रता
तत्तत्सर्वेऽपि कुर्वंति विधिदृष्टेन कर्मणा 122.
ददतुः परमप्रीतौ पात्रेभ्यश्च यथार्हतः
ब्राह्मणेभ्यो ददुः स्वानि विष्णुभक्त्या यतव्रताः
तत्क्षेत्रस्य प्रभावेण श्वेतद्वीपमुपागताः
मुक्त्वा तु मानुषं भावं श्वेतद्वीपमुपागतः
( शुक्लाम्बरधरा दिव्यभूषणैश्च विभूषिताः
स्त्रियोऽपि दिव्या यत्रत्या दिव्यभूषणभूषिताः
मयि शुद्धं परं भावमारूढाः सत्यवर्च्चसः
यत्र मत्स्यश्च चिल्ली च सकामा ये समागताः
ते च विष्णुमयान्धर्मान्द्विजस्तांस्तान्त्समाचरेत्
तेऽपि कुर्वन्ति कर्माणि मम भक्ता व्यवस्थिताः 122.
कुर्वन्तो मम कर्माणि भाव्यं पंचत्वमागताः
मानुषं भावमुत्सृज्य मम लोकमुपागतः