पुत्रोक्तमवधार्यैव शकानामधिपो नृपः
वणिजश्चैव पौराश्च वैश्याश्चापि वराङ्गनाः 122.
अथ दीर्घेण कालेन प्राप्तः कोकामुखं त्विदम् ।। तत्र गत्वा वरारोहा भर्त्तारमिदमब्रवीत्
पूर्वपृष्टं मया यत्ते वक्ष्यामीति च मां प्रति
निशम्येति प्रियाप्रोक्तं राजपुत्रो यशस्विनि
रजनी सम्प्रवृत्तेयं सुखं स्वापो विधीयताम्
प्रभातायां तु शर्वर्यां स्नातौ क्षौमविभूषितौ
व्याधेन निगृहीतोऽस्मि बडिशेन जलेचरः
तेन तस्य प्रहारेण जाता शिरसि वेदना 122.
एतत्ते कथितं भद्रे पूर्वपृष्टं च यत्त्वया
ततः साप्यनवद्याङ्गी रक्तपद्मशुभानना
एतदर्थं मया भद्र गुह्यं नोक्तं तथा स्वकम्
क्षुत्पिपासापरिश्रान्ता चिल्ली गगनगामिनी
अथ कश्चिन्मृगव्याधो हत्वा वनचरान्बहून्
प्रवृत्तोऽग्निमुपादाय तावदुड्डीय सत्वरम्
न च सक्तास्मि संहर्त्तुं मांसभारप्रपीडिता
भक्षयित्वा ततो मांसं व्याधः संहृष्टमानसः
तावद्ददर्श मां तत्र खादन्तीं मांसपिण्डिकाम् 122.
विद्धा बाणेन मां तत्र भक्षयन्तमिपातयत्
पतितास्म्यवशा भद्र कालतन्त्रे दुरासदे
जातास्मि त्वत्प्रिया चापि स्मरन्ती पूर्वजन्म तत्
गलितान्यल्पशेषाणि प्राणनाथ समीपतः
आनीतोऽसि मया भद्र स्थानं कोकामुखं प्रति
उत्तमे तु कुले जाता मानुषी जातिमाश्रिताः
तं तमेव करिष्यामि विष्णुलोके सुखावहम्
विस्मयं परमं गत्वा साधु साध्वित्यपूजयत्
तच्छ्रुत्वा कानिचिद्देवी स्वयं चक्रे पतिव्रता
तत्तत्सर्वेऽपि कुर्वंति विधिदृष्टेन कर्मणा 122.
ददतुः परमप्रीतौ पात्रेभ्यश्च यथार्हतः
ब्राह्मणेभ्यो ददुः स्वानि विष्णुभक्त्या यतव्रताः