ननाश नैव संयातः कालो बहुतिथस्ततः
अयने गत एतेषां वृत्तं कौतूहलं भुवि 122.
ततः सर्वानवद्याङ्गी भर्त्तारमिदमब्रवीत्
एतदाचक्ष्व तत्त्वेन यद्यहं च तव प्रिया
कुर्वन्ति तव कर्माणि वेदना च न गच्छति
इदं किं विस्मृता भद्रे सर्वव्याधिसमन्वितम्
संसारसागरारूढं नातिप्रष्टुं त्वमर्हसि
ततः कदाचिच्छयने सुप्तौ तौ दम्पती किल
कथयस्व तमेवार्थं यन्मया पूर्वपृच्छितम्
गोप्यं वा किंचिदस्तीह किं गोपयसि मे पुरः
इति निर्बन्धतः पृष्टः स शकाधिपतिर्नृपः
मुच्यतां मानुषं भावं तां जातिं स्मर पौर्विकीम् 122.
मन्मातापितरौ गत्वा प्रसादय शुचिस्मिते
तयोराज्ञां पुरस्कृत्य मानयित्वा यथार्हतः
स्वपूर्वजन्मवृत्तं तु देवानामपि दुलर्भम्
ततः सा ह्यनवद्याङ्गी श्वश्रूश्वशुरयोः पुरः
किंचिद्विज्ञप्तुकामास्मि तत्र वामवधीयताम्
पुण्ये कोकामुखे गन्तुमिच्छावस्तत्र वां गुरू
अद्य यावत्किमपि वां याचितं न मया क्वचित्
शिरावेदेनया युक्तः सदा तव सुतो ह्ययम्
सुखानि सर्वविषयान्विसृज्य परिपीडितः
कदाचिन्नोक्तपूर्वं ते रहस्यं परमं महत् 122.
दम्पतिभ्यां हि मननं रोचतां सर्वथैव हि
करेण स्वयमादाय वधूं पुत्रमुवाच ह
हस्त्यश्वरथ यानानि स्त्रियश्चाप्सरसोपमाः
शरणं वित्तयो राज्यं त्वयि सर्वं प्रतिष्ठितम्
त्वयि प्रतिष्ठिताः प्राणाः सन्तानं च तदुत्तरम्
पितुः पादौ गृहीत्वा च प्रोवाच विनयान्वितः
गन्तुमिच्छामि तत्राहं तूर्णं कोकामुखं महत्
तदा राज्यं बलं कोशो ममैवैतन्न सशंयः ।। तत्रैव गमनान्मह्यं वेदना नाशमेष्यति