सा व्यवर्द्धत कन्या तु वयोरूपगुणान्विता
रूपवान्गुणवाञ्छूरो युद्धकार्यार्थनिश्चितः
रूपवान्गुणवाञ्छूरो युदकार्यार्थनिष्ठितः 122.
अथ केनचित्कालेन शक आनन्दपूरके
तथा तु तौ समासाद्य परस्परमथ क्रमात्
स वै तथा समं नित्यं सा च तेन समं शुभा
गच्छत्येवं बहुतरे काले चैवाप्यनिंदिता
भजमाना विनीता च सौहृदाच्च विशेषतः
राजपुत्रस्तस्तोऽप्यत्र शकानां नंदवर्द्धनः
ये केचिद्भिषजस्तत्र गदेषु कुशलाः शुभे
ननाश नैव संयातः कालो बहुतिथस्ततः
अयने गत एतेषां वृत्तं कौतूहलं भुवि 122.
ततः सर्वानवद्याङ्गी भर्त्तारमिदमब्रवीत्
एतदाचक्ष्व तत्त्वेन यद्यहं च तव प्रिया
कुर्वन्ति तव कर्माणि वेदना च न गच्छति
इदं किं विस्मृता भद्रे सर्वव्याधिसमन्वितम्
संसारसागरारूढं नातिप्रष्टुं त्वमर्हसि
ततः कदाचिच्छयने सुप्तौ तौ दम्पती किल
कथयस्व तमेवार्थं यन्मया पूर्वपृच्छितम्
गोप्यं वा किंचिदस्तीह किं गोपयसि मे पुरः
इति निर्बन्धतः पृष्टः स शकाधिपतिर्नृपः
मुच्यतां मानुषं भावं तां जातिं स्मर पौर्विकीम् 122.
मन्मातापितरौ गत्वा प्रसादय शुचिस्मिते
तयोराज्ञां पुरस्कृत्य मानयित्वा यथार्हतः
स्वपूर्वजन्मवृत्तं तु देवानामपि दुलर्भम्
ततः सा ह्यनवद्याङ्गी श्वश्रूश्वशुरयोः पुरः
किंचिद्विज्ञप्तुकामास्मि तत्र वामवधीयताम्
पुण्ये कोकामुखे गन्तुमिच्छावस्तत्र वां गुरू
अद्य यावत्किमपि वां याचितं न मया क्वचित्
शिरावेदेनया युक्तः सदा तव सुतो ह्ययम्