कथयिष्यामि ते गुह्यं कोका येन विशिष्यते
एते पाशुपताश्चैषां कोका भागवतस्य ह
कृतं कोकामुखे चैव मम क्षेत्रे हि सुन्दरि 122.
तत्राल्पेनाम्बुना युक्ते ह्रदे मत्स्यस्तु तिष्ठति तस्य हस्ताच्च बलवान्मत्स्यस्तूर्णं विनिर्गतः
निपत्य तं गृहीत्वैव प्रोड्डीनस्त्वरयान्वितः
तत्क्षेत्रस्य प्रभावेण राजपुत्रोऽभवत्प्रभुः
अथ कालेन तस्यैव मृगव्याधस्य चाङ्गना
एका चिल्ली मांसलुब्धा तद्धस्तान्मांसगर्द्धिनी
मृगव्याधा बलान्मांसं हर्तुकामां तु चिल्लिकाम्
आकाशात्पातिता भद्रे कोकायां मम सन्निधौ
सा व्यवर्द्धत कन्या तु वयोरूपगुणान्विता
रूपवान्गुणवाञ्छूरो युद्धकार्यार्थनिश्चितः
रूपवान्गुणवाञ्छूरो युदकार्यार्थनिष्ठितः 122.
अथ केनचित्कालेन शक आनन्दपूरके
तथा तु तौ समासाद्य परस्परमथ क्रमात्
स वै तथा समं नित्यं सा च तेन समं शुभा
गच्छत्येवं बहुतरे काले चैवाप्यनिंदिता
भजमाना विनीता च सौहृदाच्च विशेषतः
राजपुत्रस्तस्तोऽप्यत्र शकानां नंदवर्द्धनः
ये केचिद्भिषजस्तत्र गदेषु कुशलाः शुभे
ननाश नैव संयातः कालो बहुतिथस्ततः
अयने गत एतेषां वृत्तं कौतूहलं भुवि 122.
ततः सर्वानवद्याङ्गी भर्त्तारमिदमब्रवीत्
एतदाचक्ष्व तत्त्वेन यद्यहं च तव प्रिया
कुर्वन्ति तव कर्माणि वेदना च न गच्छति
इदं किं विस्मृता भद्रे सर्वव्याधिसमन्वितम्
संसारसागरारूढं नातिप्रष्टुं त्वमर्हसि
ततः कदाचिच्छयने सुप्तौ तौ दम्पती किल
कथयस्व तमेवार्थं यन्मया पूर्वपृच्छितम्
गोप्यं वा किंचिदस्तीह किं गोपयसि मे पुरः