अग्निना वायुना चैव दृष्टो धर्मोऽन्यथा धरे
कुबेरेणान्यथा दृष्टः शाण्डिल्येनापि चान्यथा
पितृभिश्चान्यथा दृष्टो ह्यन्यथापि स्वयम्भुवा
स्वकं पालयते धर्मं स्वमतेनैव भाषितम् 121.
न निन्देद्धर्मकार्याणि आत्मधर्मपथे स्थितः
वियोनिं स न गच्छेत मम लोकाय गच्छति
तरन्ति पुरुषा येन गर्भसंसारसागरम्
आत्मोपकारका नित्यं देवातिथिगुरुप्रियाः
मनसा ब्राह्मणीं चैव यो गच्छेन्न कदाचन
सर्वेषां चैव पुत्राणां न विशेषं करोति यः
यः स्पृशेत्कपिलां भक्त्या कुमारीं न च दूषयेत्
जलेन मेहयेद्यस्तु गुरुभक्तो न जल्पकः
स च गर्भं न गच्छेत मम लोकं स गच्छति
इति श्रीवराहपुराणे जन्माभावो नामैकविंशत्यधिकशततमोऽध्यायः
अथ कोकामुखमाहात्म्यम् गुह्यानां परमं गुह्यं तच्छृणुष्व वसुन्धरे
अष्टम्यां च चतुर्द्दश्यां मैथुनं यो न गच्छति
बाल्ये वयस्यपि च यो मम नित्यमनुव्रतः
आयासे जीवति न यः प्रविभागी गुणान्वितः
विकर्म नाभिकुर्वीत कौमारव्रतसंस्थितः
मत्या च निःस्पृहोऽत्यन्तं परार्थेष्वस्पृहः सदा इमं गुह्यं वरारोहे देवैरपि दुरासदम्
तच्छृणुष्वानवद्याङ्गि कथ्यमानं मयाऽनघे
ये न हिंसन्ति भूतानि शुद्धात्मानो दयापराः
मनसा न चलत्येव मम वल्लभतां व्रजेत्
वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ।। 122.
एवं मे परमं गुह्यं त्वद्भक्त्या वक्तुमर्हसि
भद्रकर्णह्रदं चैव हित्वा कोकां प्रशंससि
केदारं च ततो मुक्त्वा कि कोकां च प्रशंससि
दुर्गं महाबलं मुक्त्वा किं वै कोकां प्रशंससि
एकलिङ्गं ततो मुक्त्वा किं वा कोकां प्रशंससि
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् एवमेतन्महाभागे यन्मां त्वं भीरु भाषसे