कुयोनिं तु न गच्छेत मम लोकं स गच्छति
यो वियोनिं न गच्छेत मम कर्मपरायणः
सर्वत्र समतायुक्तः समलोष्ठाश्मकांचनः
नित्यं नैव विजानाति परेणापकृतं क्वचित् 121.
व्यलीकाद्विनिवृत्तो यस्तथ्येतिकृतनिश्चयः
ऋतुकालेऽपि गच्छेद्यः अपत्यार्थे स्वकां स्त्रियम्
ते वियोनिं न गच्छन्ति मम गच्छन्ति सुन्दरि
पुरुषाणां प्रसन्नानां यश्च धर्मः सनातनः
शुक्रेण चान्यथा दृष्टो गौतमेनापि चान्यथा
शङ्खेन चान्यथा दृष्टो लिखितेनापि चान्यथा
अग्निना वायुना चैव दृष्टो धर्मोऽन्यथा धरे
कुबेरेणान्यथा दृष्टः शाण्डिल्येनापि चान्यथा
पितृभिश्चान्यथा दृष्टो ह्यन्यथापि स्वयम्भुवा
स्वकं पालयते धर्मं स्वमतेनैव भाषितम् 121.
न निन्देद्धर्मकार्याणि आत्मधर्मपथे स्थितः
वियोनिं स न गच्छेत मम लोकाय गच्छति
तरन्ति पुरुषा येन गर्भसंसारसागरम्
आत्मोपकारका नित्यं देवातिथिगुरुप्रियाः
मनसा ब्राह्मणीं चैव यो गच्छेन्न कदाचन
सर्वेषां चैव पुत्राणां न विशेषं करोति यः
यः स्पृशेत्कपिलां भक्त्या कुमारीं न च दूषयेत्
जलेन मेहयेद्यस्तु गुरुभक्तो न जल्पकः
स च गर्भं न गच्छेत मम लोकं स गच्छति
इति श्रीवराहपुराणे जन्माभावो नामैकविंशत्यधिकशततमोऽध्यायः
अथ कोकामुखमाहात्म्यम् गुह्यानां परमं गुह्यं तच्छृणुष्व वसुन्धरे
अष्टम्यां च चतुर्द्दश्यां मैथुनं यो न गच्छति
बाल्ये वयस्यपि च यो मम नित्यमनुव्रतः
आयासे जीवति न यः प्रविभागी गुणान्वितः
विकर्म नाभिकुर्वीत कौमारव्रतसंस्थितः
मत्या च निःस्पृहोऽत्यन्तं परार्थेष्वस्पृहः सदा इमं गुह्यं वरारोहे देवैरपि दुरासदम्