एतन्मरणकालेऽपि गुह्यं विष्णुप्रभाषितम्
य एतत्पठते नित्यं कल्पोच्छ्रायी दृढव्रतः
य एतेन विधानेन त्रिसन्ध्यं कर्म कारयेत्
इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसन्ध्यामन्त्रोपस्थानकरणं नाम विंशत्यधिकशततमोऽध्यायः
अथ जन्माभावः येन गर्भं न गच्छेत तच्छृणुष्व वसुन्धरे
कृत्वापि विपुलं कर्म आत्मानं न प्रशंसति
कृत्वा तु मम कर्माणि समर्थोऽनुग्रहे रतः
शीतोष्णवातवर्षादिक्षुत्पिपासासहश्च यः
स्वदारनिरतो नित्यं परदारविवर्जकः
संविभाज्य विशेषज्ञो नित्यं ब्राह्मणवत्सलः
कुयोनिं तु न गच्छेत मम लोकं स गच्छति
यो वियोनिं न गच्छेत मम कर्मपरायणः
सर्वत्र समतायुक्तः समलोष्ठाश्मकांचनः
नित्यं नैव विजानाति परेणापकृतं क्वचित् 121.
व्यलीकाद्विनिवृत्तो यस्तथ्येतिकृतनिश्चयः
ऋतुकालेऽपि गच्छेद्यः अपत्यार्थे स्वकां स्त्रियम्
ते वियोनिं न गच्छन्ति मम गच्छन्ति सुन्दरि
पुरुषाणां प्रसन्नानां यश्च धर्मः सनातनः
शुक्रेण चान्यथा दृष्टो गौतमेनापि चान्यथा
शङ्खेन चान्यथा दृष्टो लिखितेनापि चान्यथा
अग्निना वायुना चैव दृष्टो धर्मोऽन्यथा धरे
कुबेरेणान्यथा दृष्टः शाण्डिल्येनापि चान्यथा
पितृभिश्चान्यथा दृष्टो ह्यन्यथापि स्वयम्भुवा
स्वकं पालयते धर्मं स्वमतेनैव भाषितम् 121.
न निन्देद्धर्मकार्याणि आत्मधर्मपथे स्थितः
वियोनिं स न गच्छेत मम लोकाय गच्छति
तरन्ति पुरुषा येन गर्भसंसारसागरम्
आत्मोपकारका नित्यं देवातिथिगुरुप्रियाः
मनसा ब्राह्मणीं चैव यो गच्छेन्न कदाचन
सर्वेषां चैव पुत्राणां न विशेषं करोति यः