श्यामाकमिति चोक्तानि कर्मण्यानि वसुन्धरे
एतानि प्रतिगृह्णामि यच्च भागवतं प्रियम्
एतानि प्रापणे दद्यान्मम चैतत्प्रियावहम्
भागो ममास्ति तत्रापि पशूनां छागलस्य च
वर्जयेत्तत्र मांसानि यजुषा वैष्णवोऽश्नुते
पक्षिणां च प्रवक्ष्यामि ये प्रयोज्या वसुन्धरे
लावकं वार्त्तिकं चैव प्रशस्तं च कपिञ्जलम्
मम कर्मणि योग्या ये ते मया परिकीर्त्तिताः
नापराध्नोति स नरो मम चोक्तं वचः प्रिये
ततो यष्टव्यमेवं हि य इच्छेत् सिद्धिमुत्तमाम् 119.
प्राप्नुवन्ति परां सिद्धिं ममैव कृतकर्मिणः
अथ त्रिसन्ध्यामन्त्रोपस्थानम् शृणुष्व परमं गुह्यं पूर्वं पृष्टं त्वया धरे
स्नानं कृत्वा यथान्यायं मम कर्मपरायणाः
यश्चैवमुच्यते भद्रे मम रूपं सनातनम्
अधश्चोर्ध्वं च तिर्यक् च अहमेव व्यवस्थितः
सर्वथा वन्दनीयास्ते मम भक्तेन सर्वदा
अन्यच्च ते प्रवक्ष्यामि गुह्यं लोके महद्यशः
कृत्वापि परमं कर्म बुद्धिमादाय तद्विधाम्
ओं नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत्
यजामहे धर्मपरायणोद्भवं नारायणं सर्वलोकप्रधानम्
ततः पश्चान्मुखो भूत्वा पुनर्गृह्य जलांजलिम् ।। द्वादशाक्षरमुच्चार्य इमं मन्त्रमुदीरयेत् । 120.
मन्त्रा ऊचुः तथा स्थितं चादिमनन्तरूपममोघसंकल्पमनन्तमीडे
ततस्तेनैव कालेन पुनर्गृह्य जलांजलिम् नमो नारायणेत्युक्त्वा इमं मंत्रमुदीरयेत्
ततस्तेनैव कालेन भूत्वा वै दक्षिणामुखः
यजामहे यज्ञमहो रूपं तु सत्यं ऋतं च कालादिमरूपमाद्यम्
काष्ठकृत्यस्ततो भूत्वा कृत्वा चेन्द्रियनिग्रहम्
यजामहे सोमपं भवन्तं ते सोमार्कनेत्रं शतपत्रनेत्रम्
त्रिषु सन्ध्यास्वनेनैव विधिना कुर्यान्मम च कर्म तत्
गुह्यानां परमं गुह्यं योगानां परमो निधिः
एतन्न दद्यान्मूर्खाय पिशुनाय शठाय च 120.