वस्त्रैर्विभूषणं कृत्वा मम गात्रानुसारि यत् 118.
गृहीत्वा प्रणवाद्येन धर्मपुण्येन संवृतः
इदं परायणं परस्परप्रीतिकरं प्राणरक्षणं प्राणिनां स्विष्टं तदनुकल्पं सत्यमुपयुक्तमात्मने तद्देव गृहाण
एवं तु प्रापणं कृत्वा मम मार्गानुसारकः
शुचिः स्तुवति देवानामेतदेव परायणम्
एवं तु भोजनं दत्त्वा व्यपनीय तु प्रापणम्
मन्त्रः - अलङ्कारं सर्वतो देवानां द्रव्यानुक्तौ सर्वसौगन्धिकादिभिः गृह्य ताम्बूलं लोकनाथ विशिष्टमस्माकं च भवनं तव प्रतिमा च ह
अलङ्कारं मुखे श्रेष्ठं तव प्रीत्या मया कृतम्
एतेनैवोपचारेण मद्भक्तः कर्म कारयेत्
इति श्रीवराहपुराणे भगवच्छास्त्रे देवोपचारविधिर्नामाष्टादशाधिकशततमोऽध्यायः
अथ भोज्यनियमविधिः एवं कर्मविधिं श्रुत्वा सर्व संसारमोक्षणम्
एवं महौजसं कर्म तव मार्गानुसारतः
केन द्रव्येण संयुक्तं तन्ममाचक्ष्व माधव
उवाच धर्मसंयुक्तं धर्मज्ञो वाक्यकोविदः येन मन्त्रेण संयुक्तो मम प्रापणकं नयेत्
सप्त व्रीहींस्ततो गृह्य पयसा सह संयुतम्
एते चान्ये च बहवः शतशोऽथ सहस्रशः
व्रीहीणां च प्रवक्ष्यामि उपयोग्यानि माधवि
धर्मचिल्लिकशाकं च सुगन्धं रक्तमालिकौ
आमोदा शिवसुन्दर्यौ शिरीकाकुलशालिकाः
कर्मण्या मुद्गमाषा वै तिलकङ्गुकुलित्थकाः 119.
श्यामाकमिति चोक्तानि कर्मण्यानि वसुन्धरे
एतानि प्रतिगृह्णामि यच्च भागवतं प्रियम्
एतानि प्रापणे दद्यान्मम चैतत्प्रियावहम्
भागो ममास्ति तत्रापि पशूनां छागलस्य च
वर्जयेत्तत्र मांसानि यजुषा वैष्णवोऽश्नुते
पक्षिणां च प्रवक्ष्यामि ये प्रयोज्या वसुन्धरे
लावकं वार्त्तिकं चैव प्रशस्तं च कपिञ्जलम्
मम कर्मणि योग्या ये ते मया परिकीर्त्तिताः
नापराध्नोति स नरो मम चोक्तं वचः प्रिये
ततो यष्टव्यमेवं हि य इच्छेत् सिद्धिमुत्तमाम् 119.