करेण तस्य चूर्णेन पिष्टचूर्णेन वा पुनः 118.
यदीच्छेत्परमां सिद्धिं मम कर्मानुसारकः
तत आमलकं चैव वसुगन्धार्णमुत्तमम्
जलकुम्भं ततो गृह्य इमं मन्त्रमुदाहरेत्
तव व्यक्तस्वरूपेण स्नानं गृह्णीष्व मेऽनघ
अथ सौवर्णकुम्भेन रजतस्य घटेन वा
ताम्रकुम्भमयेनैव कुर्यात्स्नपनमुत्तमम्
पश्चाद्गन्धः प्रदातव्यः प्रकृष्टो मन्त्रसंयुतः
उत्पन्नाः सर्वलोकेषु त्वया सत्येषु योजिताः
मम भक्त्या सुसन्तुष्टः प्रतिगृह्णीष्व माधव
कर्मण्यान्यपि माल्यानि ततो मह्यं प्रदापयेत् 118.
ततः पुष्पाञ्जलिं दत्त्वा इमं मन्त्रमुदीरयेत्
मम संसारमोक्षाय गृह्ण गृह्ण ममाच्युत
पश्चाद्धूपं च मे दद्यात्सुगन्धद्रव्यसम्मितम्
उभयेषु कुलेष्वात्मा धूपमंत्रमुदीरयेत्
मम संसारमोक्षाय धूपोऽयं प्रतिगृह्यताम्
सांख्यानां शान्तियोगेन धूपं गृह्ण नमोऽस्तु ते
एवमभ्यर्च्चनं कृत्वा माल्यगन्धानुलेपनैः
एवं चैव समादाय कृत्वा शिरसि चाञ्जलिम्
प्रीयतां भगवान्पुरुषोत्तमः श्रीनिवासः श्रीमानानन्दरूपः क्षौमं वस्त्रं पीतरूपं मनोज्ञं देवांगे स्वे गात्रप्रच्छादनाय
वस्त्रैर्विभूषणं कृत्वा मम गात्रानुसारि यत् 118.
गृहीत्वा प्रणवाद्येन धर्मपुण्येन संवृतः
इदं परायणं परस्परप्रीतिकरं प्राणरक्षणं प्राणिनां स्विष्टं तदनुकल्पं सत्यमुपयुक्तमात्मने तद्देव गृहाण
एवं तु प्रापणं कृत्वा मम मार्गानुसारकः
शुचिः स्तुवति देवानामेतदेव परायणम्
एवं तु भोजनं दत्त्वा व्यपनीय तु प्रापणम्
मन्त्रः - अलङ्कारं सर्वतो देवानां द्रव्यानुक्तौ सर्वसौगन्धिकादिभिः गृह्य ताम्बूलं लोकनाथ विशिष्टमस्माकं च भवनं तव प्रतिमा च ह
अलङ्कारं मुखे श्रेष्ठं तव प्रीत्या मया कृतम्
एतेनैवोपचारेण मद्भक्तः कर्म कारयेत्
इति श्रीवराहपुराणे भगवच्छास्त्रे देवोपचारविधिर्नामाष्टादशाधिकशततमोऽध्यायः