मंत्रा ऊचुः सर्वलोकेषु सिद्धात्मा ददाम्यात्मकरेण च ।। 118.
मया प्रोक्तः क्षमस्वेति तुभ्यं चैव नमो नमः
दक्षिणाङ्गं ततोऽभ्यज्याद्वाममङ्गं ततोऽनु च
पश्चालिम्पेत्ततो भूमिं गोमयेन दृढव्रतः
यानि पुण्यान्यवाप्नोति तानि मे गदतः शृणु
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
एकैककणसंख्यातः स्वर्गलोके महीयते
तावद्वर्षसहस्राणि मम लोके प्रतिष्ठति
येन शुध्यन्ति चाङ्गानि मम प्रीतिश्च जायते
मधूकमश्वपर्णं वा रोहिणं चैव कर्कटम्
करेण तस्य चूर्णेन पिष्टचूर्णेन वा पुनः 118.
यदीच्छेत्परमां सिद्धिं मम कर्मानुसारकः
तत आमलकं चैव वसुगन्धार्णमुत्तमम्
जलकुम्भं ततो गृह्य इमं मन्त्रमुदाहरेत्
तव व्यक्तस्वरूपेण स्नानं गृह्णीष्व मेऽनघ
अथ सौवर्णकुम्भेन रजतस्य घटेन वा
ताम्रकुम्भमयेनैव कुर्यात्स्नपनमुत्तमम्
पश्चाद्गन्धः प्रदातव्यः प्रकृष्टो मन्त्रसंयुतः
उत्पन्नाः सर्वलोकेषु त्वया सत्येषु योजिताः
मम भक्त्या सुसन्तुष्टः प्रतिगृह्णीष्व माधव
कर्मण्यान्यपि माल्यानि ततो मह्यं प्रदापयेत् 118.
ततः पुष्पाञ्जलिं दत्त्वा इमं मन्त्रमुदीरयेत्
मम संसारमोक्षाय गृह्ण गृह्ण ममाच्युत
पश्चाद्धूपं च मे दद्यात्सुगन्धद्रव्यसम्मितम्
उभयेषु कुलेष्वात्मा धूपमंत्रमुदीरयेत्
मम संसारमोक्षाय धूपोऽयं प्रतिगृह्यताम्
सांख्यानां शान्तियोगेन धूपं गृह्ण नमोऽस्तु ते
एवमभ्यर्च्चनं कृत्वा माल्यगन्धानुलेपनैः
एवं चैव समादाय कृत्वा शिरसि चाञ्जलिम्
प्रीयतां भगवान्पुरुषोत्तमः श्रीनिवासः श्रीमानानन्दरूपः क्षौमं वस्त्रं पीतरूपं मनोज्ञं देवांगे स्वे गात्रप्रच्छादनाय