एतत्ते कथितं देवि मम धर्मं महौजसम्
इति श्रीवराहपुराणे द्वात्रिंशदपराधकथनं नाम सप्तदशाधिकशततमोऽध्यायः
अथ देवोपचारविधिः शृणु तत्त्वेन मे भद्रे प्रायश्चित्तं यथाविधि
वक्ष्यमाणेन मन्त्रेण उद्धृत्य दन्तकाष्ठकम्
दीपे प्रज्वालिते तत्र हस्तशौचं तु कारयेत्
वन्दयित्वास्य चरणौ दन्तधावनमानयेत्
मन्त्रश्च – भुवनभवन रविसंहरण अनन्तो मध्यश्चेति गृह्णेमं भुवनं दन्तधावनम्
यत्त्वया भाषितं सर्वमेवं धर्मविनिश्चयम्
नित्यं शिरसोत्तार्य धृत्वा शिरसि चात्मनः
कार्याणि मुखकर्माणि स्वल्पेन सलिलेन च
इष्ट्वेममुक्तमन्त्रेण संसारात्तु प्रमुच्यते
मन्त्रश्च- तद्भगवन्त्वां गुणश्च आत्मनश्चापि गृह्ण वारिणः सर्वदेवतानां मुखमेव प्रक्षालयेत् 118.
ततः पुष्पाञ्जलिं दत्त्वा भगवन् भक्तवत्सल
मन्त्रज्ञानां यज्ञयष्टारं भूतस्रष्टारमेव च
कायं निपतितं कृत्वा प्रसीदेति जनार्द्दनम्
मन्त्रैर्लब्ध्वा संज्ञां त्वयि नाथ प्रसन्ने त्वदिच्छातो ह्यपि योगिनां चैव मुक्तिः
. यतस्त्वदीयः कर्मकरोऽहमस्मि त्वयोक्तं यत्तेन देवः प्रसीदतु
एवं मन्त्रविधिं कृत्वा मम भक्तिव्यवस्थितः
एवं सर्वं समादाय मम कर्म दृढव्रतः
ततः स्नेहं समुद्दिश्य मंत्रज्ञः कर्मकारकः
मंत्रा ऊचुः सर्वलोकेषु सिद्धात्मा ददाम्यात्मकरेण च ।। 118.
मया प्रोक्तः क्षमस्वेति तुभ्यं चैव नमो नमः
दक्षिणाङ्गं ततोऽभ्यज्याद्वाममङ्गं ततोऽनु च
पश्चालिम्पेत्ततो भूमिं गोमयेन दृढव्रतः
यानि पुण्यान्यवाप्नोति तानि मे गदतः शृणु
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
एकैककणसंख्यातः स्वर्गलोके महीयते
तावद्वर्षसहस्राणि मम लोके प्रतिष्ठति
येन शुध्यन्ति चाङ्गानि मम प्रीतिश्च जायते
मधूकमश्वपर्णं वा रोहिणं चैव कर्कटम्