सप्तविंशं चापराधं कल्पयामि गुणान्विते
अपराधं त्वष्टविंशं कल्पयामि गुणान्विते
एकोनविंशापराधो न स स्वर्गेषु गच्छति
त्रिंशकं चापराधं तं कल्पयामि यशस्विनि
एकत्रिंशं चापराधं कल्पयामि मनस्विनि
महापराधं जनीयाद्द्वात्रिंशं तं मम प्रिये
कृत्वा चावश्यकं कर्म मम लोकं च गच्छति
अहिंसापरमश्चैव सर्वभूतदयापरः
निगृह्य चेन्द्रियग्राममपराधविवर्जितः
शास्त्रज्ञः कुशलश्चैव मम कर्मपरायणः 117.
आचार्यभक्ता देवेषु भक्ता भर्तरि वत्सला
मम लोकस्थिता सा वै भर्त्तारं प्रसमीक्षते
स ततोऽत्र प्रतीक्षेत भार्यां भर्त्तरि वत्सलाम्
ऋषयो मां न पश्यन्ति मम कर्मपथे स्थिताः
किं पुनर्मानुषा ये च मम कर्मव्यवस्थिताः
मम मायाविमूढास्तु न प्रपद्यन्ति माधवि
तानहं भावसंसिद्धान्बुद्ध्वा संविभजामि वै
तेनेदं कथितं देवि आख्यानं धर्मसंयुतम्
ततो न चोपदिष्टाय न शठाय प्रदापयेत
शठाय च न दातव्यं नास्तिकाय न माधवि 117.
एतत्ते कथितं देवि मम धर्मं महौजसम्
इति श्रीवराहपुराणे द्वात्रिंशदपराधकथनं नाम सप्तदशाधिकशततमोऽध्यायः
अथ देवोपचारविधिः शृणु तत्त्वेन मे भद्रे प्रायश्चित्तं यथाविधि
वक्ष्यमाणेन मन्त्रेण उद्धृत्य दन्तकाष्ठकम्
दीपे प्रज्वालिते तत्र हस्तशौचं तु कारयेत्
वन्दयित्वास्य चरणौ दन्तधावनमानयेत्
मन्त्रश्च – भुवनभवन रविसंहरण अनन्तो मध्यश्चेति गृह्णेमं भुवनं दन्तधावनम्
यत्त्वया भाषितं सर्वमेवं धर्मविनिश्चयम्
नित्यं शिरसोत्तार्य धृत्वा शिरसि चात्मनः
कार्याणि मुखकर्माणि स्वल्पेन सलिलेन च