शून्याँल्लोकानिमान् दृष्ट्वा सिसृक्षुर्मूर्त्तिमुत्तमाम् । क्षोभयित्वा मनोधाम तत्राकारः स्वमात्रतः ।। 9.
स्थितस्तस्मिन् यदा क्षुब्धे ब्रह्माण्डमभवत्तदा । तस्मिंस्तु शकलीभूते भूर्लोकं च व्यवस्थितम् ।। 9.
अपरं भुवनं प्रायान्मध्ये भास्करसन्निभम् । पुराणपुरुषो व्याप्य पद्मकोशे व्यवस्थितः ।। 9.
स हि नारायणो देवः प्राजापत्येन तेजसा । अकाराद्यं स्वरं नाभ्यां हलं च विससर्ज ह ।। 9.
अमूर्त्तसृष्टौ शास्त्राणि उदगायत् तदा दिशः । सुष्ट्वा पुनरमेयात्मा चिन्तयामास धारणम् ।। 9.
तस्य चिन्तयतो नेत्रात् तेजः समभवन्महत् । दक्षिणं वह्निसङ्काशं वामं तुहिनसन्निभम् ।। 9.
तं दृष्ट्वा चन्द्रसूर्यौ तु कल्पितौ परमेष्ठिना । ततः प्राणः समुत्तस्थौ वायुश्च परमेष्ठिनः ।। 9.
स एव वायुर्भगवान् योऽद्यापि हृदिगो विभुः । तस्माद् वह्निः समुत्तस्थौ तस्मादग्नेर्जलं महत् ।। 9.
य एवाग्निः स वै तेजो ब्राह्मं परमकारणम् । बाहुभ्यामप्यसौ तेजः क्षात्रं तेजः ससर्ज ह ।। 9.
ऊरुभ्यामपि वैश्यांश्च पद्भ्यां शूद्रांस्तथा विभुः । ततस्तु ससृजे यक्षान् राक्षसांश्च तथा विभुः ।। 9.
चतुर्विधैस्तु भूर्लोकं भुवर्लोकं वियच्चरैः । भूतैः स्वर्मार्गगैरन्यैः स्वर्लोकं समपूरयत् ।। 9.
महर्लोकं तथा तैस्तैर्भूतैश्च सनकादिभिः । जनोलोकं ततश्चैव वैराजैः समपूरयत् ।। 9.
तपोलोकं ततो देवस्तपोनिष्ठैरपूरयत् । अपुनर्मारकैर्देवैः सत्यलोकमपूरयत् ।। 9.
सृष्टिं सृष्ट्वा तथा देवो भगवान् भूतभावनः । कल्पसंज्ञं स्वकं घस्त्रं जागर्ति परमेश्वरः ।। 9.
तस्मिन् जगति भूर्लोको भुवर्लोकश्च जायते । स्वर्लोकश्च त्रयोऽप्येते जायन्ते नात्र संशयः ।। 9.
सुप्ते तु देवे कल्पान्ते तावती रात्रिरिष्यते । त्रै लोक्यमेतत् सुप्तं स्यात् तथोपप्लवतां गतम् ।। 9.
ततो रात्र्यां व्यतीतायामुत्थितः कमलेक्षणः । चिन्तयामास तान् वेदान् मातरं च चतुर्ष्वपि । चिन्तयानः स देवेशस्तान् वेदान् नाध्यगच्छत ।। 9.
लोकमार्गस्थितिं कर्त्तुं निद्राज्ञानेन मोहितः । चिन्तयामास देवेशो नात्र वेदा व्यवस्थिताः ।। 9.
ततः स्वमूर्तौ तोयाख्ये लीनान् दृष्ट्वा सुरेश्वरः । जिघृक्षुश्चिन्तयामास मत्स्यो भूत्वाविशज्जलम् ।। 9.
एवं ध्यात्वा महामत्स्यस्तत्क्षणात् समजायत । विवेश च जलं देवः समन्तात् क्षोभयन्निव ।। 9.
तस्मिन् प्रविष्टे सहसा जलं तु महामहीधृग्वपुषि प्रकाशम् । मात्स्यं गते देववरे महोदधिं हरिं स्तवैस्तुष्टुवुरुद्धृतक्षितिम् ।। 9.
नमोऽस्तु वेदान्तरगाप्रतर्क्य नमोऽस्तु नारायण मत्स्यरूप । नमोऽस्तु ते सुस्वर विश्वमूर्त्ते नमोऽस्तु विद्याद्वयरूपधारिन् ।। 9.
नमोऽस्तु चन्द्रार्कमरुत्स्वरूप जलान्तविश्वस्थित चारुनेत्र । नमोऽस्तु विष्णोः शरणं व्रजामः प्रपाहि नो मत्स्यतनुं विहाय ।। 9.
त्वया ततं विश्वमनन्तमूर्त्ते पृथग्गते किञ्चिदिहास्ति देव । भवान् न चास्य व्यतिरिक्तमूर्त्ति- स्त्वत्तो वयं ते शरणं प्रपन्नाः ।। 9.
खात्मेन्दुवह्निश्च मनश्च रूपं पुराणमूर्त्तेस्तव चाब्जनेत्र । क्षमस्व शंभो यदि भक्तिहीनं त्वया जगद्भासति देवदेव ।। 9.
विरुद्धमेतत् तव देवरूपं सुभीषणं सुस्वनमद्रितुल्यम् । पुराण देवेश जगन्निवास शमं प्रयाह्यच्युत तीव्रभानो ।। 9.
वयं हि सर्वे शरणं प्रपन्ना भयाच्च ते रूपमिदं प्रपश्य । लोके समस्तं भवता विना तु न विद्यते देहगतं पुराणम् ।। 9.
एवं स्तुतस्तदा देवो जलस्थान् जगृहे च सः । वेदान् सोपनिषच्छास्त्रानन्तःस्थं रूपमास्थितः ।। 9.
यावत्स्वमूर्तिर्भगवांस्तावदेव जगत् त्विदम् । कूटस्थे तल्लयं याति विकृतिस्थे विवर्द्धते ।। 9.
श्रीवराह उवाच । एवं सृष्ट्वा जगत्सर्वं भगवान् लोकभावनः । विरराम ततः सृष्टिर्व्यवर्द्धत धरे तदा ।। १०.