सप्तमं चापराधं तु कल्पयामि वसुंधरे
अष्टमं चापराधं च कल्पयामि वसुन्धरे
नवमं चापराधं तं न रोचामि वसुन्धरे
दशमश्चापराधोऽयं मम चाप्रियकारकः
एकादशापराधं तु कल्पयामि वसुंधरे
द्वादशं चापराधं तं कल्पयामि वसुंधरे
त्रयोदशं चापराधं कल्पयामि वसुन्धरे
चतुर्द्दशापराधं तु कल्पयामि वसुन्धरे
अपराधं पंचदशं कल्पयामि वसुंधरे
षोडशं त्वपराधानां कल्पयामि वरानने 117.
अपराधं सप्तदशं कल्पयामि वसुन्धरे
अष्टादशापराधं च कल्पयामि वसुंधरे
एकोनविंशापराधं कल्पयामि वसुंधरे
विंशकं चापराधं तं कल्पयामि वरानने
एकविंशापराधं तं कल्पयामि वसुन्धरे
द्वाविंशं चापराधं तं कल्पयामि प्रिये सदा
अपराधं त्रयोविंशं कल्पयामि वसुन्धरे
अपराधं चतुर्विंशं कल्पयामि वसुन्धरे
अपराधं पंचविंशं कल्पयामि वसुन्धरे
अपराधेषु षड्विंशं कल्पयामि वसुन्धरे 117.
सप्तविंशं चापराधं कल्पयामि गुणान्विते
अपराधं त्वष्टविंशं कल्पयामि गुणान्विते
एकोनविंशापराधो न स स्वर्गेषु गच्छति
त्रिंशकं चापराधं तं कल्पयामि यशस्विनि
एकत्रिंशं चापराधं कल्पयामि मनस्विनि
महापराधं जनीयाद्द्वात्रिंशं तं मम प्रिये
कृत्वा चावश्यकं कर्म मम लोकं च गच्छति
अहिंसापरमश्चैव सर्वभूतदयापरः
निगृह्य चेन्द्रियग्राममपराधविवर्जितः
शास्त्रज्ञः कुशलश्चैव मम कर्मपरायणः 117.