शेषमन्नं समश्नाति ततः सौख्यतरं नु किम्
कृत्वा सायाह्निकं कर्म ततः सौख्यतरं नु किम्
यश्चात्मा वै समश्नाति ततः सौख्यतरं नु किम् 116.
येन केनचिद्दत्तेन ततः सौख्यतरं नु किम्
पितरो यस्य तृप्यन्ति ततः सौख्यतरं नु किम्
अभिन्नमुखरागेण ततः सौख्यतरं नु किम्
समं पश्यति यो देवि ततः सौख्यतरं नु किम्
अहिंसोपरतः शुद्धः स सुखायोपजायते
यस्य चित्तं न गच्छेत्तु ततः सौख्यतरं नु किम्
लोष्टवत्पश्यते यस्तु ततः सौख्यतरं नु किम्
यस्तु प्राणान्प्रमुच्येत ततः सौख्यतरं नु किम्
यस्तु जीवति संतुष्टः स सुखायोपपद्यते
या तोषयति भर्त्तारं ततः सौख्यतरं नु किम् 116.
निगृहीतेन्द्रियः पंच ततः सौख्यतरं नु किम्
यस्येदं विदितं सर्वं ततः सौख्यतरं नु किम्
यस्तु प्राणान्प्रमुच्येत ततः सौख्यतरं नु किम्
देवतेव सदा पश्येत्ततः सौख्यतरं नु किम्
अनन्यमानसो भूत्वा ततः सौख्यतरं नु किम्
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वलोकहितार्थाय यन्मां त्वं परिपृच्छसि
इति श्रीवराहपुराणे सुखदुःखनिरूपणं नाम षोडशाधिकशततमोऽध्यायः
अथ द्वात्रिंशदपराधाः शृणु भद्रे महाश्चर्यमाहारविधिनिश्चयम्
भुञ्जानो याति चाश्नाति मम योगाय माधवि
आहारं चैव धर्मज्ञ उपभुञ्जीत नित्यशः
अकर्मण्यानि वक्ष्यामि येन भोज्यंति मां प्रति
प्रथमं चापराधान्नं न रोचेत मम प्रिये
द्वितीयस्त्वपराधोऽयं धर्मविघ्नाय वै भवेत्
तृतीयमपराधं तु कल्पयामि वसुंधरे
चतुर्थमपराधं तु दृष्टं नैव क्षपाम्यहम्
पंचमं चापराधं च न क्षमामि वसुंधरे
षष्ठं तं चापराधं वै न क्षमामि वसुंधरे 117.