कदाचित्तु चतुर्थेन कदाचित्फलमेव च
य एतत्सप्त जन्मानि मम कर्माणि कुर्वते
इति श्रीवराहपुराणे विविधकर्मोत्पत्तौ पंचदशाधिकशततमोऽध्यायः
अथ सुखदुःखनिरूपणम् मया प्रोक्तविधानेन यस्तु कर्माणि कारयेत्
एकचित्तः समास्थाय अहङ्कारविवर्ज्जितः
फलमूलानि शाकानि द्वादश्यां वा कदाचन
षष्ठ्यष्टमी ह्यमावास्या तूभयत्र चतुर्दशी
एवं योगविधानेन कर्म कुर्याद्दृढव्रतः
न ग्लानिर्न जरा तस्य न मोहो रोग एव च
तेषां व्युष्टिं प्रवक्ष्यामि मम कर्मसमुत्थिताम्
ममार्चनविधिं कृत्वा मम लोके महीयते
उचितेनोपचारेण दुःखमोक्षविनाशनम्
यो मां नैव प्रपद्येत ततो दुःखतरं नु किम् 116.
यो न मां प्रतिपद्येत ततो दुःखतरं नु किम्
अदत्त्वा तस्य यो भुंक्ते ततो दुःखतरं नु किम्
तस्य देवा न चाश्नन्ति ततो दुःखतरं नु किम्
परोपतापी मन्दात्मा ततो दुःखतरं नु किम्
मृत्युकालवशं प्राप्तस्ततो दुःखतरं नु किम्
धावन्त्यस्याग्रतः पृष्ठे ततो दुःखतरं नु किम्
शुष्कान्नं केचिदश्नन्ति ततो दुःखतरं नु किम्
केचित्तृणेषु शेरन्ते ततो दुःखतरं नु किम्
केचिद्विरूपा दृश्यन्ते ततो दुःखतरं नु किम्
केचिन्मूकाश्च दृश्यन्ते ततो दुःखतरं नु किम् 116.
दरिद्रो जायते दाता ततो दुःखतरं नु किम्
एका तु दुर्भगा तत्र ततो दुःखतरं नु किम्
पापकर्मरता ह्यासन्ततो दुःखतरं नु किम्
मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम्
सर्वभूताहितं पापं यत्त्वया परिपृच्छितम्
तच्छृणुष्वानवद्याङ्गि मम कर्मविनिश्चयम्
यस्य बुद्धिर्विजायेत स दुःखायोपजायते