यानि कर्माणि कुरुते मम भक्तिपथे स्थितः
ऋतुकालाभिगामी च शान्तात्मा मोहवर्जितः
गुरुसम्पूजको नित्यं युक्तो भक्तानुवत्सलः
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति अथ शूद्रस्य वक्ष्यामि कर्माणि शृणु माधवि
कर्माणि यानि कृत्वा ह शूद्रो मह्यं व्यवस्थितः
उभौ भागवतौ भक्तौ मद्भक्तौ कर्मनिष्ठितौ
निरहङ्कारशुद्धात्मा आतिथेयो विनीतवान्
नमस्कारप्रियो नित्यं मम चिन्ताव्यवस्थितः
त्यक्त्वा ऋषिसहस्राणि शूद्रमेव भजाम्यहम् 115.
एवं कर्मगुणाश्चैव येन भक्त्या व्यवस्थितः
येन तत्प्राप्यते योगं तच्छृणुष्व वसुन्धरे
न शीतं च न चोष्णे च लब्धाऽलब्धं विचिन्तयेत्
न कषायैः स्पृहा यस्य प्राप्नुयात्सिद्धिमुत्तमाम्
य एतान् हि परित्यज्य मम कर्मरतः सदा
तत्परो नित्यमुद्युक्तः अन्यकार्यजुगुप्सकः
कारुण्यः सर्वसत्त्वानां प्रत्युत्थायी महाक्षमः
त्रिकालं च दिशो भागं सदा कर्मपथि स्थितः
अनुष्ठानपरश्चैव मम पार्श्वे मनश्चरः
पुष्पे गन्धे च धूपे च मत्कर्मणि सदा रतः 115.
पयसा यावकेनापि कदाचिद्वायुभक्षणः
कदाचित्तु चतुर्थेन कदाचित्फलमेव च
य एतत्सप्त जन्मानि मम कर्माणि कुर्वते
इति श्रीवराहपुराणे विविधकर्मोत्पत्तौ पंचदशाधिकशततमोऽध्यायः
अथ सुखदुःखनिरूपणम् मया प्रोक्तविधानेन यस्तु कर्माणि कारयेत्
एकचित्तः समास्थाय अहङ्कारविवर्ज्जितः
फलमूलानि शाकानि द्वादश्यां वा कदाचन
षष्ठ्यष्टमी ह्यमावास्या तूभयत्र चतुर्दशी
एवं योगविधानेन कर्म कुर्याद्दृढव्रतः
न ग्लानिर्न जरा तस्य न मोहो रोग एव च
तेषां व्युष्टिं प्रवक्ष्यामि मम कर्मसमुत्थिताम्