मायाततं येन जगत्त्रयं कृतं यथाग्निनैकेन ततं चराचरम् । चराचरस्य स्वयमेव सर्वतः स मेऽस्तु विष्णुः शरणं जगत्पतिः ।। ८.
भवे भवे यश्च ससर्ज्ज कं ततो जगत् प्रसूतं सचराचरं त्विदम् । ततश्च रुद्रात्मवति प्रलीयते- ऽन्वतो हरिर्विष्णुहरस्तथोच्यते ।। ८.
खात्मेन्दुपृथ्वीपवनाग्निभास्करा जलं च यस्य प्रभवन्ति मूर्त्तयः । स सर्वदा मे भगवान् सनातनो ददातु शं विष्णुरचिन्त्यरूपधृक् ।। ८.
धरण्युवाच । आदौ कृतयुगे नाथ किं कृतं विश्वमूर्त्तिना । नारायणेन तत्सर्वं श्रोतुमिच्छामि तत्त्वतः ।। 9.
श्रीवराह उवाच । पूर्वं नारायणस्त्वेको नासीत् किञ्चिद्धरेः परम् । सैक एव रतिं लेभे नैव स्वच्छन्दकर्मकृत् ।। 9.
तस्य द्वितीयमिच्छन्तश्चिन्ता बुद्ध्यात्मिका बभौ । असावित्येव संज्ञाया क्षणं भास्करसन्निभा ।। 9.
तस्या अपि द्विधा भूता चिन्ताऽभूद ब्रह्मवादिनी । उमेति संज्ञया यत्तत्सदा मर्त्ये व्यवस्थिता ।। 9.
ओमित्येकाक्षरीभूता ससर्जेमां महीं तदा । भूः ससर्ज भुवं सोऽपि स्वः ससर्ज ततो महः ।। 9.
ततश्च जन इत्येव तपश्चात्मा प्रलीयते । एतदोतं तथा प्रोतं सूत्रे मणिगणा इव ।। 9.
जगत् प्रणवतो भूतं शून्यमेतत् स्थितं तदा । येयं मूर्तिर्भगवतः शंकरः स स्वयं हरिः ।। 9.
शून्याँल्लोकानिमान् दृष्ट्वा सिसृक्षुर्मूर्त्तिमुत्तमाम् । क्षोभयित्वा मनोधाम तत्राकारः स्वमात्रतः ।। 9.
स्थितस्तस्मिन् यदा क्षुब्धे ब्रह्माण्डमभवत्तदा । तस्मिंस्तु शकलीभूते भूर्लोकं च व्यवस्थितम् ।। 9.
अपरं भुवनं प्रायान्मध्ये भास्करसन्निभम् । पुराणपुरुषो व्याप्य पद्मकोशे व्यवस्थितः ।। 9.
स हि नारायणो देवः प्राजापत्येन तेजसा । अकाराद्यं स्वरं नाभ्यां हलं च विससर्ज ह ।। 9.
अमूर्त्तसृष्टौ शास्त्राणि उदगायत् तदा दिशः । सुष्ट्वा पुनरमेयात्मा चिन्तयामास धारणम् ।। 9.
तस्य चिन्तयतो नेत्रात् तेजः समभवन्महत् । दक्षिणं वह्निसङ्काशं वामं तुहिनसन्निभम् ।। 9.
तं दृष्ट्वा चन्द्रसूर्यौ तु कल्पितौ परमेष्ठिना । ततः प्राणः समुत्तस्थौ वायुश्च परमेष्ठिनः ।। 9.
स एव वायुर्भगवान् योऽद्यापि हृदिगो विभुः । तस्माद् वह्निः समुत्तस्थौ तस्मादग्नेर्जलं महत् ।। 9.
य एवाग्निः स वै तेजो ब्राह्मं परमकारणम् । बाहुभ्यामप्यसौ तेजः क्षात्रं तेजः ससर्ज ह ।। 9.
ऊरुभ्यामपि वैश्यांश्च पद्भ्यां शूद्रांस्तथा विभुः । ततस्तु ससृजे यक्षान् राक्षसांश्च तथा विभुः ।। 9.
चतुर्विधैस्तु भूर्लोकं भुवर्लोकं वियच्चरैः । भूतैः स्वर्मार्गगैरन्यैः स्वर्लोकं समपूरयत् ।। 9.
महर्लोकं तथा तैस्तैर्भूतैश्च सनकादिभिः । जनोलोकं ततश्चैव वैराजैः समपूरयत् ।। 9.
तपोलोकं ततो देवस्तपोनिष्ठैरपूरयत् । अपुनर्मारकैर्देवैः सत्यलोकमपूरयत् ।। 9.
सृष्टिं सृष्ट्वा तथा देवो भगवान् भूतभावनः । कल्पसंज्ञं स्वकं घस्त्रं जागर्ति परमेश्वरः ।। 9.
तस्मिन् जगति भूर्लोको भुवर्लोकश्च जायते । स्वर्लोकश्च त्रयोऽप्येते जायन्ते नात्र संशयः ।। 9.
सुप्ते तु देवे कल्पान्ते तावती रात्रिरिष्यते । त्रै लोक्यमेतत् सुप्तं स्यात् तथोपप्लवतां गतम् ।। 9.
ततो रात्र्यां व्यतीतायामुत्थितः कमलेक्षणः । चिन्तयामास तान् वेदान् मातरं च चतुर्ष्वपि । चिन्तयानः स देवेशस्तान् वेदान् नाध्यगच्छत ।। 9.
लोकमार्गस्थितिं कर्त्तुं निद्राज्ञानेन मोहितः । चिन्तयामास देवेशो नात्र वेदा व्यवस्थिताः ।। 9.
ततः स्वमूर्तौ तोयाख्ये लीनान् दृष्ट्वा सुरेश्वरः । जिघृक्षुश्चिन्तयामास मत्स्यो भूत्वाविशज्जलम् ।। 9.
एवं ध्यात्वा महामत्स्यस्तत्क्षणात् समजायत । विवेश च जलं देवः समन्तात् क्षोभयन्निव ।। 9.