यत्त्वया पृच्छ्यते देवि तच्छृणुष्व वसुन्धरे
नाहं दानसहस्रेण नाहं यज्ञशतैरपि
एकचित्तं समाधाय यो मां जानाति माधवि
यच्च पृच्छसि मां भद्रे कर्म स्वर्गसुखावहम्
ये नमस्यति मां नित्यं पुरुषा बहुचेतसः
यस्य चित्तं न नश्येत मम भक्तिव्यवस्थितम्
ते मामेव प्रपश्यन्ति मयि भक्तिपरायणाः
इच्छयाऽपि भवेद्भद्रे स्वर्गे वसति सुन्दरि
यानि कर्माणि कुर्वन्तु मां प्रपश्यन्ति माधवि 115.
द्वादश्यामुपवासं तु ये च कुर्वन्ति ते नराः
कृत्वा चैवोपवासं प्रगृह्य चैव जलाञ्जलिम्
यावन्तो बिन्दवः किंचित्पतन्त्येवाञ्जलेर्जलात्
अथ चैव तु द्वादश्यां पुरुषा धर्मवादकाः
पाण्डुरैश्चैव पुष्पैश्च मृष्टैर्धूपैस्तु धूपयेत्
दत्त्वा शिरसि पुष्पाणि इमं मन्त्रमुदीरयेत्
सुमान्यः सुमना गृह्य प्रीयतां भगवान्हरिः
नमोऽस्तु विष्णवे व्यक्ताव्यक्तगन्धिगन्धान्सुगन्धान्वा गृह्ण गृह्ण नमो भगवते विष्णवे श्रुत्वा प्रत्यागतमाधारसवनं पतये भवं प्रविष्टं मे धूप धूपनं गृह्णातु मे भगवानच्युतः
श्रुत्वा चैवं च शास्त्राणि यो मामेव तु कारयेत्
एतत्ते कथितं देवि श्रेष्ठं चैव मम प्रियम् 115.
श्यामाकं स्वस्तिकं चैव गोधूमं मुद्गकं तथा
एतानि यस्तु भुञ्जीत मम कर्मपरायणः
ब्राह्मणस्य तु वक्ष्यामि शृणु कर्म वसुन्धरे
षट्कर्मनिरतो भूत्वा अहङ्कारविवर्ज्जितः
मम कर्मसमायुक्तः पैशुन्येन विवर्जितः
एतद्वै ब्रह्मणः कर्म एकचित्तो जितेन्द्रियः
क्षत्रियाणां प्रवक्ष्यामि मम कर्मसु तिष्ठताम्
दानशूरश्च कर्मज्ञो यज्ञेषु कुशलः शुचिः
अल्पभाषी गुणज्ञश्च नित्यं भागवतप्रियः
अभ्युत्थानादिकुशलः पैशुन्येन विवर्जितः 115.
भजते मम यो नित्यं मम लोकाय गच्छति