का गतिस्तस्य सिद्धा तु कथयस्व सुरोत्तम
गमनागमनं चैव त्वत्प्रसन्नेन माधव
अतस्त्वयैव वक्तव्यो योगसाङ्ख्यविनिश्चयः 114.
भस्माकुलेषु निःक्षिप्य कथं चाग्नौ प्रपद्यते
त्वत्क्षेत्रसंस्थितो वापि तन्ममाचक्ष्व पृच्छतः
नमो नारायणेत्युक्त्वा तेषां वै का गतिर्भवेत्
नामप्रकीर्तनात्तेषां कीदृशी तु गतिर्भवेत्
रहस्यं धर्मसंयुक्तं तन्ममाचक्ष्व माधव
संचिन्त्य लोकधर्मार्थं तद्भवान् वक्तुमर्हति
अथ विविधधर्मोत्पत्तिः कथयिष्यामि ते देवि कर्म स्वर्गसुखावहम्
यत्त्वया पृच्छ्यते देवि तच्छृणुष्व वसुन्धरे
नाहं दानसहस्रेण नाहं यज्ञशतैरपि
एकचित्तं समाधाय यो मां जानाति माधवि
यच्च पृच्छसि मां भद्रे कर्म स्वर्गसुखावहम्
ये नमस्यति मां नित्यं पुरुषा बहुचेतसः
यस्य चित्तं न नश्येत मम भक्तिव्यवस्थितम्
ते मामेव प्रपश्यन्ति मयि भक्तिपरायणाः
इच्छयाऽपि भवेद्भद्रे स्वर्गे वसति सुन्दरि
यानि कर्माणि कुर्वन्तु मां प्रपश्यन्ति माधवि 115.
द्वादश्यामुपवासं तु ये च कुर्वन्ति ते नराः
कृत्वा चैवोपवासं प्रगृह्य चैव जलाञ्जलिम्
यावन्तो बिन्दवः किंचित्पतन्त्येवाञ्जलेर्जलात्
अथ चैव तु द्वादश्यां पुरुषा धर्मवादकाः
पाण्डुरैश्चैव पुष्पैश्च मृष्टैर्धूपैस्तु धूपयेत्
दत्त्वा शिरसि पुष्पाणि इमं मन्त्रमुदीरयेत्
सुमान्यः सुमना गृह्य प्रीयतां भगवान्हरिः
नमोऽस्तु विष्णवे व्यक्ताव्यक्तगन्धिगन्धान्सुगन्धान्वा गृह्ण गृह्ण नमो भगवते विष्णवे श्रुत्वा प्रत्यागतमाधारसवनं पतये भवं प्रविष्टं मे धूप धूपनं गृह्णातु मे भगवानच्युतः
श्रुत्वा चैवं च शास्त्राणि यो मामेव तु कारयेत्
एतत्ते कथितं देवि श्रेष्ठं चैव मम प्रियम् 115.
श्यामाकं स्वस्तिकं चैव गोधूमं मुद्गकं तथा