किम्प्रमाणं तु दातव्यं मधुपर्कसमन्वितम्
प्रापणेष्वपि युज्येत कर्म शास्त्रसमायुतम्
केन मन्त्रविधानेन प्राशनं ते प्रदीयते
कानि कर्म्माणि कुर्वीत तव भक्तस्य भोजनात् 114.
के ऽत्र भुंजन्ति तद्देव सर्वशुद्धिकरं परम्
तेषां तु का गतिर्देव तव मार्गानुसारिणाम्
तेषां तु का गतिर्देव तव भक्तिं प्रकुर्वताम् ।। कृच्छ्रसांतपने कृत्वा येऽभिगच्छन्ति माधवम्
कां गतिं ते प्रपद्यन्ते तव कर्मपरायणाः
तेषां तु का गतिः कृष्ण तव भक्तौ व्यवस्थिताः
कां गतिं ते प्रपद्यन्ते तव कर्मानुसारिणः
ते कां गतिं प्रपद्यन्ते नरा ये व्रतकारिणः
कां गतिं ते प्रपद्यन्ते तव भक्त्या व्यवस्थिताः
कां गतिं ते प्रपद्यन्ते नरा भिक्षोपजीविनः
कां गतिं ते प्रपद्यन्ते तव कर्मपरायणाः 114.
काँल्लोकांस्ते प्रपद्यन्ते तव क्षेत्रेषु ये मृताः
कां गतिं वै परायान्ति ये तु पंचातपे मृताः
तेषां तु का गतिर्देव कण्टशय्यां समाश्रिताः
तेषां तु का गतिः कृष्ण तव भक्तिपरायणाः
तेषां तु का गतिर्ब्रह्मंस्तव भक्तिपथे स्थिताः
तेषां तु का गतिर्देव ये नरा यावकाशिनः
नारायण गतिस्तेषां कीदृशोऽत्र विधिः स्मृतः
तेषां तु का गतिर्देव तव कर्मपरायणाः
तेषां तु का गतिर्देव शिरसा दीपधारणात् 114.
ते गतिं कां प्रपद्यन्ते तव चिंतापरायणाः
तेषां तु का गतिर्देव तव भक्तिपरायणाः
तेषां तु का गतिर्देव स्वधर्मगुणचारिणः
तेषां तु का गतिर्देव तन्ममाचक्ष्व पृच्छतः
ते यांति कां गतिं देव कथ्यते या च शाश्वती
तेषां तु का गतिर्देव कथ्यते चैव शाश्वती
भगवन् का गतिस्तस्य अवाक्शिरसि शायिनः