अपुत्रो लभते पुत्रं दरिद्रो धनमाप्नुयात्
उभे सन्ध्ये पठेत्स्तोत्रं माधवस्य महात्मनः
एवं तु अक्षरोक्तोऽपि भवेत्तु परिकल्पना
इति श्रीवराहपुराणे विष्णुस्तवनं नाम त्रयोदशाधिकशततमोऽध्यायः
अथ श्रीवराहावतारः संस्तूयमानो भगवान्मुनिभिर्मन्त्रवादिभिः
ततो ध्यानं समास्थाय दिव्यं योग्यं च माधवः
तव देवि प्रियार्थाय भक्त्या यं त्वं व्यवस्थिता
अहं त्वां धारयिष्यामि सशैलवनकाननाम्
एवमाश्वासयित्वा तु वसुधां स च माधवः
षट् सहस्राणि चोच्छ्रायो विस्तारेण पुनस्त्रयः
वामया दंष्ट्रया गृह्य उज्जहार च मेदिनीम्
नगा विलग्नाः पतिताः केचिद्विज्ञानसंश्रिताः
चन्द्रनिर्मलसङ्काशा वराहमुखसंस्थिताः
एवं हि धार्यमाणा सा पृथिवी सागरान्विता 114.
तस्यामेव तु कालस्य परिमाणं युगेषु च
ततः पृथिव्या देवश्च भगवान्विष्णुरव्ययः
सा गौः स्तुवति तं चैव पुराणं परमव्ययम्
आधारः कीदृशो देव उपयोगश्च कीदृशः
कीदृशा पश्चिमा संध्या कीदृशी ह्यर्धबाह्यतः
किन्नु संस्थापने देव आवाहनविसर्जने
कथं पाद्यं च गृह्णाति स्नापनालेपनानि च
आसनं शयनं चैव किङ्कर्म्मापि विधीयते
पश्चिमा पूर्वसंध्यायां किं पुण्यं चापि तत्र वै
वसन्ते कीदृशं कर्म ग्रीष्मे किं कर्म कारयेत् 114.
यानि तत्रोपभोग्यानि पुष्पाणि च फलानि च
किं कर्मणा भोगवता तावद्गच्छति माधवम्
अर्च्चायाः किं प्रमाणं तु स्थापनं चापि कीदृशम्
पीतकं शुक्लरक्तं वा कथं गृह्णाति वाससाम्
केषु द्रव्येषु संयुक्तं मधुपर्कं प्रदीयते
केषु लोकेषु गच्छन्ति मधुपर्कस्य भक्षणात्