सग्रहाणि च ऋक्षाणि कलाकाष्ठामुहूर्त्तकाः
सग्रहा ये च नक्षत्रा कला कालमुहूर्त्तकाः
मासः पक्षमहोरात्रमृतुः संवत्सराण्यपि
कला काष्ठापि षण्मासाः षड्रसाश्चापि संयमः
त्वं मेरुर्मन्दरो विन्ध्यो मलयो दर्दुरो भवान्
धनुषां च पिनाकोऽसि सांख्ययोगोऽसि चोत्तमः 113.
संक्षिप्तश्चैव विस्तारो गोप्ता यज्ञश्च शश्वतः
वेदानां सामवेदोऽसि साङ्गोपाङ्गो महाव्रतः
अमृतं सृजसे विष्णो येन लोकानधारयत्
धेयाधेयं जगत्सर्वं यच्च किंचित् प्रवर्त्तते
आदित्यस्त्वं युगावर्त्तास्त्वं तपस्वी महातपाः
अनन्तश्चासि नागानां सर्पाणामसि तक्षकः
क्रीडाविक्षेपणश्चासि गृहेषु गृहदेवताः
साङ्गस्त्वं विद्युतीनां च वैद्युतानां महाद्युतिः
श्रद्धासि त्वं च देवेश दोषहन्तासि माधव 113.
गरुडोऽसि महात्मानं वहसि त्वं परायणः
जयश्च विजयश्चासि गृहेषु गृहदेवताः
भगस्त्वं विषलिङ्गश्च परस्त्वं परमात्मकः
मां त्वं मग्नामसि त्रातुं लोकनाथ इहार्हसि
य इदं पठते स्तोत्रं केशवस्य दृढव्रतः
अपुत्रो लभते पुत्रं दरिद्रो धनमाप्नुयात्
उभे सन्ध्ये पठेत्स्तोत्रं माधवस्य महात्मनः
एवं तु अक्षरोक्तोऽपि भवेत्तु परिकल्पना
इति श्रीवराहपुराणे विष्णुस्तवनं नाम त्रयोदशाधिकशततमोऽध्यायः
अथ श्रीवराहावतारः संस्तूयमानो भगवान्मुनिभिर्मन्त्रवादिभिः
ततो ध्यानं समास्थाय दिव्यं योग्यं च माधवः
तव देवि प्रियार्थाय भक्त्या यं त्वं व्यवस्थिता
अहं त्वां धारयिष्यामि सशैलवनकाननाम्
एवमाश्वासयित्वा तु वसुधां स च माधवः
षट् सहस्राणि चोच्छ्रायो विस्तारेण पुनस्त्रयः