पुनश्च रावणो रक्षः क्षयितं स्वेन तेजसा
न च जानाम्यहं देव तव किंचिद्विचेष्टितम्
सृष्ट्वा किमादिशः सर्वां न प्राज्ञायत किंचन
अंशवश्चन विद्यन्ते न नक्षत्रा न वा ग्रहाः
शनैश्चरो बुधो नात्र न चेन्द्रो धनदो यमः
वर्जयित्वात्र त्रीन्देवान् ब्रह्मविष्णुमहेश्वरान् 113.
गत्वा च शरणं देवी दैन्यं वदति माधवी
सपर्वतवनैः सार्द्धं मां तारय पितामह
मुहुर्तं ध्यानमास्थाय पृथिवीं तामुवाच ह
लोकनाथं सुरश्रेष्ठमादिकर्त्तारमञ्जसा
सर्वेषामेव नः कार्यं यच्च किञ्चित्प्रवर्त्तते
अनन्तशयने देवं शयानं योगशायिनम्
कृताञ्जलिपुटा देवी प्रसादयति माधवम् अहं भारसमायुक्ता ब्रह्माणं शरणङ्गता
प्रत्याख्याता भगवता तेनाप्युक्तमिदं वचः
स त्वां तारयितुं शक्तो मग्नासि यदि सागरे
भक्त्या त्वां शरणं यामि प्रसीद मम माधव 113.
वासवो वरुणश्चासि ह्यग्निर्मारुत एव च
मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽसि वामनः
एवं पश्यसि योगेन श्रूयते त्वं महायशाः
पृथिवी वायुराकाशमापोज्योतिश्च पञ्चमम्
सग्रहाणि च ऋक्षाणि कलाकाष्ठामुहूर्त्तकाः
सग्रहा ये च नक्षत्रा कला कालमुहूर्त्तकाः
मासः पक्षमहोरात्रमृतुः संवत्सराण्यपि
कला काष्ठापि षण्मासाः षड्रसाश्चापि संयमः
त्वं मेरुर्मन्दरो विन्ध्यो मलयो दर्दुरो भवान्
धनुषां च पिनाकोऽसि सांख्ययोगोऽसि चोत्तमः 113.
संक्षिप्तश्चैव विस्तारो गोप्ता यज्ञश्च शश्वतः
वेदानां सामवेदोऽसि साङ्गोपाङ्गो महाव्रतः
अमृतं सृजसे विष्णो येन लोकानधारयत्
धेयाधेयं जगत्सर्वं यच्च किंचित् प्रवर्त्तते