धरण्युवाच न बाहुश्चेष्टते मूर्तिर्मादृशीं गां च केशव
स तेन सान्त्वितायां वै पृथिव्यां यः समागतः
स्वस्ति वाच्याह पुण्याग्रे प्रत्युवाच वसुन्धराम् यं दृष्ट्वा वर्द्धसे देवि त्वं च यस्यासि माधवि
विष्णुना धार्यमाणा च किं त्वया दृष्टमद्भुतम्
ब्रह्मपुत्रवचः श्रुत्वा पृथिवी वाक्यमब्रवीत् यद्गुह्यं स मया पृष्टो यच्च मे सम्प्रभाषितम्
शृणु तत्त्वेन विप्रेन्द्र गुह्यं धर्मं महौजसम् 113.
तेन मे कथितं ह्येतत्संसारात्तु विमोक्षणम्
उवाच परमं गुह्यं धर्माणां व्याप्तनिश्चयम्
ततो महीवचः श्रुत्वा ब्रह्मपुत्रो महातपाः
तान्सर्वानानयामास यत्र देवी व्यवस्थिता
सनत्कुमार उवाच अप्रमेयगतिं चैव धर्ममाचक्ष्व तत्त्वतः
ततस्तस्य वचः श्रुत्वा प्रणम्य ऋषिपुंगवम्
धरण्युवाच बाढमित्येव तां देवि स्वस्ति ब्रूहीति सोऽब्रवीत्
नष्टचन्द्रानिले लोके नष्टभास्करतारके
न वाति पवनस्तत्र नैव चाग्निर्न विद्युतः
वेदेषु चैव नष्टेषु मत्स्यो भूत्वा रसातलम् 113.
अन्यद्देवः कूर्मरूपस्त्वं समुद्रस्य मन्थने
पुनर्वराहरूपेण मां गच्छन्तीं रसातले
अन्यद्धिरण्यकशिपुर्वरदानेन दर्पितः
पुनर्निःक्षत्ररूपेण त्वयाऽहं विकृता पुरा
पुनश्च रावणो रक्षः क्षयितं स्वेन तेजसा
न च जानाम्यहं देव तव किंचिद्विचेष्टितम्
सृष्ट्वा किमादिशः सर्वां न प्राज्ञायत किंचन
अंशवश्चन विद्यन्ते न नक्षत्रा न वा ग्रहाः
शनैश्चरो बुधो नात्र न चेन्द्रो धनदो यमः
वर्जयित्वात्र त्रीन्देवान् ब्रह्मविष्णुमहेश्वरान् 113.
गत्वा च शरणं देवी दैन्यं वदति माधवी
सपर्वतवनैः सार्द्धं मां तारय पितामह
मुहुर्तं ध्यानमास्थाय पृथिवीं तामुवाच ह
लोकनाथं सुरश्रेष्ठमादिकर्त्तारमञ्जसा