वराहाख्या वरारोहे सर्वपातकनाशिनी
ब्रह्मा स्वसूनवे प्रादात्पुलस्त्याय महात्मने
असावपि स्वशिष्याय प्रादादुग्राय धारिणि 112.
सम्बन्धः पूर्वकल्पीयो द्वितीयं शृणु साम्प्रतम्
त्वत्तश्च तपसा सिद्धा वेत्स्यन्ते कपिलादयः
तस्यापि शिष्यो भविता नाम्ना वै रोमहर्षणिः
अष्टादश पुराणानि वेद द्वैपायनो गुरुः
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम्
दशमं ब्रह्मवैवर्त्त लैङ्गमेकादशं स्मृतम्
चतुर्दशं वामनकं कौर्मं पंचदशं स्मृतम्
य एतत्पाठयेद्भक्त्या कार्तिक्यां द्वादशीदिने
यस्येदं तिष्ठते गेहे लिखितं पूज्यते सदा
यश्चैतच्छृणुयाद्भक्त्या नैरन्तर्येण मानवः 112.
श्रुत्वा तु पूजयेच्छास्त्रं तथा विष्णुं सनातनम्
यथाशक्त्या नृपो ग्रामैः पूजयेद्वत्सकं धरे
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने उभयतोमुखीगोदान हेमकुम्भदान पुराणप्रशंसनंनाम द्वादशाधिकशततमोऽध्यायः
अथ भगवत्स्तुतिः
नमस्तस्मै वराहाय लीलयोद्धरते महीम्
दंष्ट्राग्रेणोद्धृता गोरुदधिपरिवृता पर्वतैर्निम्नगाभिर्भक्तानां भीतिहानौ सुरनरकदशास्यान्तकः क्रोडरूपी
यस्मिन्काले क्षितिः पूर्वकल्पे वाराह मूर्तिना
धरण्युवाच न बाहुश्चेष्टते मूर्तिर्मादृशीं गां च केशव
स तेन सान्त्वितायां वै पृथिव्यां यः समागतः
स्वस्ति वाच्याह पुण्याग्रे प्रत्युवाच वसुन्धराम् यं दृष्ट्वा वर्द्धसे देवि त्वं च यस्यासि माधवि
विष्णुना धार्यमाणा च किं त्वया दृष्टमद्भुतम्
ब्रह्मपुत्रवचः श्रुत्वा पृथिवी वाक्यमब्रवीत् यद्गुह्यं स मया पृष्टो यच्च मे सम्प्रभाषितम्
शृणु तत्त्वेन विप्रेन्द्र गुह्यं धर्मं महौजसम् 113.
तेन मे कथितं ह्येतत्संसारात्तु विमोक्षणम्
उवाच परमं गुह्यं धर्माणां व्याप्तनिश्चयम्
ततो महीवचः श्रुत्वा ब्रह्मपुत्रो महातपाः
तान्सर्वानानयामास यत्र देवी व्यवस्थिता