महापातकयुक्तोऽपि वंचको ब्रह्मदूषकः
महापातकयुक्तोऽपि गवां दानेन शुध्यति
तद्दिनं पायसाहारं पयसा वापि वा भवेत्
तस्याप्यर्द्धशतेनाथ पंचाशच्च ततोऽर्द्धकम् 112.
इमां गृह्णोभयमुखीमुभयत्र शमोऽस्तु वै
प्रतिगृह्णामि त्वां धेनो कुटुम्बार्थे विशेषतः
मे नित्यं स्वस्ति भवतु रुद्राङ्गेति नमोनमः
क इदं कस्मा अदादिति जपित्वा वै वसुन्धरे
एवं प्रसूयमानां यो गां ददाति वसुन्धरे
वदन्ति तां चन्द्रसमानवक्त्रां प्रतप्तजाम्बूनदतुल्यवर्णाम्
प्रातरुत्थाय यो मर्त्यः कल्पं चेदं समाहितः
श्राद्धकाले पठेद्यस्तु इदं पावनमुत्तमम्
अमायां वाथ यः कश्चिद्द्विजानामग्रतः पठेत् 112.
यश्चैतच्छृणुयान्नित्यं तद्गतेनान्तरात्मना
होतोवाच धरण्यै कथितं राजन्धेनुमाहात्म्यमुत्तमम्
मया ते कथितं सर्वं सर्वपापप्रणाशनम्
सर्वकामसमृद्धार्थो वैष्णवं पदमाप्नुयात्
प्रत्यक्षधेनुर्दातव्या सहिरण्या नृपोत्तम
सर्वपापप्रशमनं भुक्तिमुक्तिप्रदायकम्
धेनूनां फलमुद्दिश्य सर्वकामप्रदं नृणाम्
इदानीं कार्त्तिकी चेयं वर्त्तते च नराधिप
देवदानवयक्षैस्तु युक्तमेतत्सदा विभो
सरत्नं पुरुषः कृत्वा कार्त्तिक्यां द्वादशी दिने 112.
पुरोहिताय गुरवे दद्याद्भक्तिसमन्वितः
तानि दत्तानि तेन स्युः समासात्कथितं तव
सैकदेशो यजेत्तस्य ब्रह्माण्डस्य विशेषतः
तेन चेष्टं हुतं दत्तं पठितं कीर्त्तितं भवेत्
ब्रह्माण्डमृषये प्रादात्सविधानं च तत्क्षणात्
तस्मात्त्वमपि राजेन्द्र तद्दत्त्वा तु सुखी भव
जगाम परमां सिद्धिं यत्र गत्वा न शोचति इयं ते कथिता देवि संहिता सर्वकामिका