पतितैः स हि विज्ञेयश्चाण्डालसदृशोऽधमः
दूरात्ते परिहर्त्तव्याः श्वभिस्तुल्या इवाध्वरे
असम्भाष्याः प्रतिग्राह्या शूद्रास्ते पापकर्मणः
भूमेर्मलं समश्नन्ति जायन्ते विड्भुजश्चिरम् 112.
उपजीवन्ति ये शूद्रास्तेषां गतिमतः शृणु
रौरवे तु महारौद्रे वर्षकोटिशतं धरे
शुनो योन्या विमुक्तास्तु विष्ठाभुक्कृमयस्ततः
भूयोभूयो जायमानस्तथोत्तारं न विन्दति
ततः प्रभृत्यमेध्यान्तः पितरस्तस्य शेरते
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणैर्धरे
प्राजापत्यं चरेत्कृच्छ्रं तेन शुष्यति स द्विजः
किमन्यैर्बहुभिर्दानैः कोटिसंख्यानविस्तरैः
आसन्नप्रसवां धेनुं दानार्थं प्रतिपालयेत
जायमानस्य वत्सस्य मुखं योन्यां प्रदृश्यते 112.
धेन्वा यावन्ति रोमाणि सवत्साया वसुन्धरे
वसन्ति ब्रह्मलोके वै ये नित्यं कपिलाप्रदाः
ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव च
उदकं च करे दत्त्वा वाचयेच्छुद्धया गिरा
रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः
नन्दितो याति पितृभिर्विष्ण्वाख्यं परमं पदम्
महापातकयुक्तोऽपि वंचको ब्रह्मदूषकः
महापातकयुक्तोऽपि गवां दानेन शुध्यति
तद्दिनं पायसाहारं पयसा वापि वा भवेत्
तस्याप्यर्द्धशतेनाथ पंचाशच्च ततोऽर्द्धकम् 112.
इमां गृह्णोभयमुखीमुभयत्र शमोऽस्तु वै
प्रतिगृह्णामि त्वां धेनो कुटुम्बार्थे विशेषतः
मे नित्यं स्वस्ति भवतु रुद्राङ्गेति नमोनमः
क इदं कस्मा अदादिति जपित्वा वै वसुन्धरे
एवं प्रसूयमानां यो गां ददाति वसुन्धरे
वदन्ति तां चन्द्रसमानवक्त्रां प्रतप्तजाम्बूनदतुल्यवर्णाम्