नवमी पाटला ज्ञेया दशमी पुच्छपिंगला
सर्वलक्षणसंयुक्ता सर्वालंकृतसुन्दरी
भुक्तिमुक्तिप्रदा तेषां विष्णुमार्गप्रदायिनी
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने कपिलादानमाहात्म्यं नाम एकादशाधिकशततमोऽध्यायः
अथोभयतोमुखीगोदानहेमकुम्भदानपुराणप्रशंसाः अतः परं महाराज शृणूभयमुखीं ततः
तदहं सम्प्रवक्ष्यामि तव पुण्यफलं महत् या त्वया कपिला प्रोक्ता पूर्वमुत्पादिता प्रभो
होमधेनुः सदा पुण्या सा ज्ञेया कतिलक्षणा
प्रसूयमाना दानेन किं पुण्यं स्याच्च माधव
श्रीवराह उवाच यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
कपिला ह्यग्निहोत्रार्थे यज्ञार्थे च वरानने
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्
तपसस्तप एवाग्र्यं व्रतानां व्रतमुत्तमम्
पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि च
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः 112.
जुह्वते ह्यग्निहोत्राणि मन्त्रैश्च विविधैः सदा
ते यान्त्यादित्यवर्णैश्च विमानैर्द्विजसत्तमाः
कपिला या पिङ्गलाक्षी सूर्यसौख्यप्रदायिनी
पूर्वोक्ता यास्तु कपिलाः सर्वलक्षणलक्षिताः
संगमेषु प्रशस्ताश्च सर्वपापविनाशनाः
तथाग्नायी तथा देवी सुवर्णाख्या प्रवर्तते
पतितैः स हि विज्ञेयश्चाण्डालसदृशोऽधमः
दूरात्ते परिहर्त्तव्याः श्वभिस्तुल्या इवाध्वरे
असम्भाष्याः प्रतिग्राह्या शूद्रास्ते पापकर्मणः
भूमेर्मलं समश्नन्ति जायन्ते विड्भुजश्चिरम् 112.
उपजीवन्ति ये शूद्रास्तेषां गतिमतः शृणु
रौरवे तु महारौद्रे वर्षकोटिशतं धरे
शुनो योन्या विमुक्तास्तु विष्ठाभुक्कृमयस्ततः
भूयोभूयो जायमानस्तथोत्तारं न विन्दति
ततः प्रभृत्यमेध्यान्तः पितरस्तस्य शेरते
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणैर्धरे