पादुकोपानहच्छत्रभाजनं तर्पणं तथा 110.
पूर्ववच्चार्च्चयित्वा तां कृत्वा दीपार्च्चनादिकम्
त्रिः प्रदक्षिणमावृत्त्य दंडवत्प्रणमेच्च ताम्
मया दत्तां च गृह्णीष्व प्रसीद त्वं द्विजोत्तम
या च लक्ष्मीस्तु गोविन्दे स्वाहा या च विभावसौ
गायत्री ब्रह्मणः प्रोक्ता ज्योत्स्ना चन्द्रे रवेः प्रभा
तस्मात्सर्वमयी देवी धान्यरूपेण संस्थिता
दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्तमम्
तावत्पुण्यं समधिकं व्रीहिधेनोश्च तत्फलम्
इहलोके च सौभाग्यमायुरारोग्यवर्द्धनम्
स्तूयमानोऽप्सरोभिश्च स याति शिवमन्दिरम् 110.
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत्
सर्वपापविशुद्धात्मा रुद्रलोके महीयते
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने धान्यधेनुदानमाहात्म्यं नाम दशाधिकशततमोऽध्यायः
अथ कपिलाधेनुदानमाहात्म्यम् अथातः सम्प्रवक्ष्यामि कपिलां धेनुमुत्तमाम्
पूर्वोक्तेन विधानेन दद्याद्धेनुं सवत्सकाम्
कपिलायाः शिरो ग्रीवा सर्वतीर्थानि भामिनि
प्रातरुत्थाय यो मर्त्यः कपिलागलमस्तकात्
स तेन पुण्यतोयेन तत्क्षणाद्दग्धकिल्बिषः
कल्यमुत्थाय यो मर्त्यः कुर्यात्तासां प्रदक्षिणम्
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन तत्क्षणात्
कपिलायास्तु मूत्रेण स्नायाच्चैव शुचिव्रतः। स गङ्गादिषु तीर्थेषु स्नातो भवति मानवः
तेन स्नानेन चैकेन भावयुक्तेन वै नरः
गोसहस्रं च यो दद्यादेकां वा कपिलां नरः 111.
गवामस्थि ततोऽप्येतन्मृतगन्धेन दूषयेत्
गवां कण्डूयनं श्रेष्ठं तथा च परिपालनम्
तृणादिकानि यो दद्यात्क्षुधितेन गवाह्निकम्
विमानैर्विविधैर्दिव्यैः कन्याभिरभितोऽर्पितैः
सुवर्णकपिला पूर्वं द्वितीया गौरपिङ्गला
पंचमी बहुवर्णा स्यात्षष्ठी च श्वेतपिङ्गला