अथ कार्पासधेनुदानमाहात्म्यम् अथातः सम्प्रवक्ष्यामि धेनुं कार्पासकीं नृप
विषुवे त्वयने पुण्ये युगादिग्रहणे तथा
नृणां च ग्रहपीडासु दुःस्वप्नाद्भुतदर्शने
गोमयेनोपलिप्तायां दर्भानास्तीर्य वै तिलान्
धूपदीपादिनैवेद्यैः पूजयेच्च विमत्सरः
भारेण चाधमा प्रोक्ता वित्तशाठ्यं विवर्जयेत् ।। चतुर्थांशेन वत्सं तु कल्पयित्वा विधानतः
कर्त्तव्या रुक्मशृङ्गी तु रजतस्य खुरान्विता
इत्येवं सर्वसम्पूर्णा कृत्वा श्रद्धासमन्वितः
दद्याद्धेनुं चर्मपाणिः प्रयतः श्रद्धयान्वितः
यया देवगणः सर्वस्त्वया हीनो न वर्त्तते 109.
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने कार्पासधेनुदानमाहात्म्यं नाम नवाधिकशततमोऽध्यायः
अथ धान्यधेनुदानमाहात्म्यम् शृणु राजन्प्रवक्ष्यामि धान्यधेनुमनुत्तमाम्
विषुवे चायने वापि कार्त्तिक्यां तु विशेषतः
(तदिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम्) दशधेनुप्रदानेन यत्फलं राजसत्तम
कृष्णाजिनं ततः कृत्वा प्राग्वत्संस्थापयेद्बुधः
उत्तमा तु भवेद्धेनुर्द्रोणैश्चापि चतुष्टयैः
चतुर्थांशेन वत्सं तु कल्पयित्वा विधानतः
कर्तव्यौ रुक्मशृङ्गौ तु राजतखुरसंयुतौ ।। गोमेदैः कुर्वीत घ्राणं अगुरुं चन्दनं तथा
मुक्ताफलमया दंता घृतक्षौद्रमयं मुखम्
इक्षुपृष्टिमयाः पादाः क्षौम्यपुच्छसमन्विताम्
पादुकोपानहच्छत्रभाजनं तर्पणं तथा 110.
पूर्ववच्चार्च्चयित्वा तां कृत्वा दीपार्च्चनादिकम्
त्रिः प्रदक्षिणमावृत्त्य दंडवत्प्रणमेच्च ताम्
मया दत्तां च गृह्णीष्व प्रसीद त्वं द्विजोत्तम
या च लक्ष्मीस्तु गोविन्दे स्वाहा या च विभावसौ
गायत्री ब्रह्मणः प्रोक्ता ज्योत्स्ना चन्द्रे रवेः प्रभा
तस्मात्सर्वमयी देवी धान्यरूपेण संस्थिता
दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्तमम्
तावत्पुण्यं समधिकं व्रीहिधेनोश्च तत्फलम्
इहलोके च सौभाग्यमायुरारोग्यवर्द्धनम्