श्वश्व्राऽहमुक्ता तीव्रेण कोपेन महता पितः । जीवहन्तुः सुतेत्युच्चैरसकृद् व्याधजेति च ।। ८.
एतच्छ्रुत्वा स धर्मात्मा धर्मव्याधो रुषान्वितः । मतङ्गस्य गृहं सोऽथ गत्वा जनपदैर्वृतम् ।। ८.
तस्यागतस्य संबन्धी मतङ्गो जयतां वरः । आसनाद्यर्ध्यपाद्येन पूजयित्वेदमब्रवीत् । किमागमनकृत्यं ते किं करोम्यागतक्रियाम् ।। ८.
व्याध उवाच । भोजनं किंचिदिच्छामि भोक्तुं चैतन्यवर्जितम् । कौतूहलेन येनाहमागतो भवतो गृहम् ।। ८.
मतङ्ग उवाच । गोधूमा व्रीमयश्चैव संस्कृता मम वेश्मनि । भुज्यतां धर्मविच्छ्रेष्ठ यथाकामं तपोधन ।। ८.
व्याध उवाच । पश्यामि कीदृशास्ते हि गोधूमा व्रीहयो यवाः । स्वरूपेण च सन्त्येते येन वो वेद्मि सत्तम ।। ८.
श्रीवराह उवाच । एवमुक्ते मतङ्गेन शूर्पं गोधूमपूरितम् । अपरं तत्र व्रीहीणां धर्मव्याधाय दर्शितम् ।। ८.
दृष्ट्वा व्रीहीन् सगोधूमान् धर्मव्याधो वरासनात् । उत्थाय गन्तुमारेभे मतङ्गेन निवारितः ।। ८.
किमर्थं गन्तुमारब्धं त्वया वद महामते । अभुक्तेनैव संसिद्धं मद्गृहे चान्नमुत्तमम् । पाचयित्वा स्वयं चैव कस्मात् त्वं नाद्य भुञ्जसे ।। ८.
व्याध उवाच । सहस्त्रशः कोटिशश्च जीवान् हंसि दिने दिने । अथेदृशस्य पापस्य कोऽन्नं भुञ्जति सत्पुमान् ।। ८.
अचैतन्यं यदि गृहे विद्यतेऽन्नं सुसंस्कृतम् । इदानीमत्र संदृष्टा एते तु जलजन्तवः ।। ८.
(उप्ताः सहस्त्रतां यान्ति प्रतिसंवत्सरं मुने ।) ।। ८.२६ (१)।। अहमेकं कुटुम्बार्थे हन्म्यरण्ये पशुं दिने । तं चेत् पितृभ्यः संस्कृत्य दत्त्वा भुञ्जामि सानुगः ।। ८.
त्वं तु जीवान् बहून् हत्वा स्वकुटुम्बेन सानुगः । भुञ्जन्नेतेन सततमभोज्यं तन्मतं मम ।। ८.
ब्रह्मणा तु पुरा सृष्टा ओषध्यः सर्ववीरुधः । यज्ञार्थं तत्तु भूतानां भक्ष्यमित्येव वै श्रुतिः ।। ८.
दिव्यो भौतस्तथा पैत्रो मानुषो ब्राह्म एव च । एते पञ्च महायज्ञा ब्रह्मणा निर्मिताः पुरा ।। ८.
ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखम् । इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः ।। ८.
एवं यदि विभागः स्याद् वरान्नं तद् विशुध्यति । अन्यथा व्रीहयोऽप्येते एकैके मृगपक्षिणः । मन्तव्या दातृभोक्तृणां महामांसं तु तत् स्मृतम् ।। ८.
मया ते दुहिता दत्ता पुत्रार्थे देवरूपिणी । सा च त्वद्भार्यया प्रोक्ता दुहिता जन्तुघातिनः ।। ८.
अतोऽर्थमागतोऽहं ते गृहं प्रति समीक्षितुम् । आचारं देवपूजां च अतिथीनां च तर्पणम् ।। ८.
एतेषामेकमप्यत्र कुर्वन्नपि न दृश्यते । तद् गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ।। ८.
स्वगृहे नैव भुञ्जामि पितॄणां कार्यमित्युत । अहं व्याधो जीवघाती न तु त्वं लोकहिंसकः ।। ८.
मत्सुता जीवघातस्य यदोढा त्वत्सुतेन च । तन्महत्त्वं च संजातं प्रायश्चितं तपोधन ।। ८.
एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे । मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित् ।। ८.
मा च स्नुषा कदाचित् स्याद् या श्वश्रूं जीवतीमिषेत् । एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ।। ८.
ततो देवान् पितॄन् भक्तया पूजयित्वा विचक्षणः । पुत्रं चार्जुनकं स्थाप्य स्वसन्ताने महातपाः ।। ८.
धर्मव्याधो जगामाशु तीर्थं त्रैलोक्यविश्रुतम् । पुरुषोत्तमाख्यं च परं तत्र गत्वा समाहितः । तपश्चचार नियतः पठन् स्तोत्रमिदं धरे ।। ८.
नमामि विष्णुं त्रिदशारिनाशनं विशालवक्षस्थलसंश्रितश्रियम् । सुशासनं नीतिमतां परां गतिं त्रिविक्रमं मन्दरधारिणं सदा ।। ८.
दामोदरं रञ्जितभूतलं धिया यशोंशुशुभ्रं भ्रमराङ्गसप्रभम् । धराधरं नरकरिपुं पुरुष्टुतं नमामि विष्णुं शरणं जनार्दनम् ।। ८.
(नरं नृसिंहं हरिमीश्वरं प्रभुं त्रिधामनामानमनन्तवर्चसम् । सुसंस्कृतास्यं शरणं नरोत्तमं व्रजामि देवं सततं तमच्युतम् ।। ८.४३ (१)) त्रिधा स्थितं तिग्मरथाङ्गपाणिनं नयस्थितं तृप्तमनुत्तमैर्गुणैः । निःश्रेयसाख्यं क्षपितेतरं गुरुं नमामि विष्णुं पुरुषोत्तमं त्वहम् ।। ८.
(हतौ पुराणौ मधुकैटभावुभौ बिभर्त्ति च क्ष्मां शिरसा सदा हि सः । यथा स्तुतो मे प्रसभं सनातनो दधातु विष्णुः सुखमूर्जितं मम ।। ८.४४ (१)) महावराहो हविषाम्बुभोजनो जनार्दनो मे हितकृच्चितीमुखः । क्षितीधरो मामुदधिक्षयो महान् स पातु विष्णुः शरणार्थिनं तु माम् ।। ८.