ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः प्रकल्प्य सास्नां च सितैश्च सूत्रैः
नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत्
स्वर्णशृङ्गीं रौप्यखुरां पंचरत्नसमन्विताम्
आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलंकृताम्
मन्त्रास्त एव जप्तव्याः सर्वधेनुषु ये स्मृताः
उत्पन्नं दिव्यममृतं नवनीतमिदं शुभम् 107.
एवमुच्चार्य तां दद्याद्ब्राह्मणाय कुटुम्बिने
हविरेवं रसं चैव विप्रवर्यस्य भूपते
यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम
पितृभिः पूर्वजैः सार्द्धं भविष्यद्भिश्च मानवः
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने नवनीतधेनुदानमाहात्म्यंनाम सप्ताधिकशततमोऽध्यायः
अथ लवणधेनुदानमाहात्म्यम् लवणधेनुं प्रवक्ष्यामि तां निबोध नृपोत्तम
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे
वत्सं चतुर्भी राजेन्द्र इक्षुपादांश्च कारयेत्
मुखं गुडमयं तस्या दन्ताः फलमया नृप नेत्रे रत्नमये कुर्यात्कर्णौ पत्रमयौ तथा
सूत्रपुच्छां ताम्रपृष्ठां दर्भरोमां पयस्विनीम्
सुगन्धपुष्पधूपैश्च पूजयित्वा विधानतः
नक्षत्रग्रहपीडां च सर्वकालं प्रदापयेत्
द्विजाय साधुवृत्ताय वेदवेदाङ्गवेदिने
वेदवेदाङ्गविदुषे श्रोत्रियायाहिताग्नये
इष्ट्वा चैवं च मन्त्रं तु पुच्छदेशोपविश्य च 108.
आच्छाद्य वस्त्रयुग्मेन दक्षिणां कम्बलं ददेत्
ब्राह्मणं पूज्य विधिवत्पूर्वोक्तविधिना नृप
इमं मन्त्रं समुच्चार्य ततस्तां प्रतिपादयेत्
रसज्ञा सर्वभूतानां सर्वदेवनमस्कृता
दत्त्वा धेनुं तु लवणेनैकाहं चैव तिष्ठति
सहस्रेण शतेनाथ स्वशक्त्या कनकेन तु
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने लवणधेनुमाहात्म्यं नाम अष्टाधिकशत तमोऽध्यायः