सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च
मुखं गुडमयं तस्या जिह्वां शर्करया तथा
इक्षुपादां दर्भरोमां सितकम्बलसंवृताम्
पुच्छं च नृपशार्दूल नवनीतमयस्तनीम्
चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि विन्यसेत्
धूपदीपादिकं कृत्वा ब्राह्मणाय निवेदयेत् 105.
पादुकोपानहौ छत्रं दत्त्वा दानं समर्पयेत्
आप्यायस्वेति मन्त्रेण वेदोक्तेन विधानतः
आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत्
दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम्
दत्वा धेनुं महाराज शृणु तस्यापि यत्फलम्
पित्रादिभिश्च सहितो ब्रह्मणो भवनं व्रजेत्
क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति
गीतवादित्रनिर्घोषैरप्सरोभिश्च सेविते
यं इमं शृणुयाद्राजन्पठेद्वा भक्तिभावतः
इति श्रीवराहपुराणे श्वेतविनीताश्वापोख्याने क्षीरधेनुदानविधिर्नाम पञ्चाधिकशततमोऽध्यायः
अथ दधिधेनुदान माहात्म्यम् दधिधेनोर्महाराज विधानं शृणु सांप्रतम्
गोचर्ममात्रं तु पुनः पुष्पप्रकरशोभिते
दधिकुम्भं तु संस्थाप्य सप्तधान्यचयोपरि
आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम्
क्षमादिगुणयुक्ताय दद्यात्तां दधिधेनुकाम्
पादुकोपानहौ छत्रं दत्त्वा मंत्रमिमं पठेत्
एवं दधिमयीं धेनुं दत्त्वा राजर्षिसत्तम
यजमानो वसेद्राजंस्त्रिरात्रं च द्विजोत्तमः
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः
इति श्रीवराहपुराणे श्वेतविनीताश्वापोख्याने दधिधेनुदानमाहात्म्यंनाम षडधिकशततमोऽध्यायः
अथ नवनीतधेनुदानमाहात्म्यम् नवनीतमयीं धेनुं शृणु राजन्प्रयत्नतः
गोमयेनानुलिप्तायां भूमौ गोचर्ममानतः
कुम्भं तु नवनीतस्य प्रस्थमात्रस्य धारयेत्
कृत्वा विधानेन च राजसिंह सुवर्णशृङ्गी सुमुखा च कार्या